सोमवार, 26 ऑगस्ट 2024 (15:04 IST)
कवीन्द्र उवाच ॥
अथ विठ्ठलराजस्य खेलकर्णादयस्सुताः ।
धीरेण धर्मराजेन धृतराष्टात्मजा इव ॥१॥
प्रसभं शाहराजेन स्पर्धमानाः पदे पदे ।
द्विषन्न इव विद्वेषं दायादत्वाददर्शयन् ॥२॥
ते मन्त्रिणं निजामस्य म्लेच्छंमबरनायकम् ।
स्वशेमुषीविशेषेण वशीकृतमहीतलम् ॥३॥
श्रवणीयं संश्रयन्तः स्पृहयन्तः श्रियेऽन्वहम् ।
न सेहिरे महाबाहुं शाहं सूर्यसमौजसम् ॥४॥
तमन्तर्भेदमुद्भूतमात्मीयकुलसंभवम् ।
परिज्ञायेंगितज्ञेन सुधिया शाहवर्मणा ॥५॥
तमंबरं निजामं च दायादांस्तांश्च दुर्मदान् ।
पटुनात्मप्रतापेन न्यक्कृत्य निकृतिस्थितान् ॥६॥
स्वीयसैन्यसमेतेन निकेतेन जयश्रियाम् ।
महासन्नाहयुक्तेन महोत्साहेन मानिना ॥७॥
स्कन्धविन्यस्तकुन्तेन शकुन्तेशानशक्तिना ।
आनीयताचिरेणैव निजदेशस्सदेशाताम् ॥८॥
तं प्रस्थितं प्रभावेण स्थिंत जनपदे निजे ।
नैव मन्त्री निजामस्य वशीकर्तुं शशाक सः ॥९॥
तदा तेन विना तिग्मद्युतिनेव द्यमन्डलम् ।
अपि पाज्यं निजामस्य राज्यं तन्न व्यराजत ॥१०॥
येदिलस्तमथोद्वीक्ष्य भेदयोग्यमनेहसम् ।
अमुं शाहं महाबाहुं महोत्साहं महाशयम् ॥११॥
साहाय्यार्थं समानाय्य महाभृत्यैर्महामतिः ।
स्पर्धी निजामशाहस्य स्वं दुर्धर्षममन्यत ॥१२॥
येदिलस्तमथासाद्य दवानल इवानिलम् ।
ववृधे वैरिसैन्यानि विपिनानि विनिर्दहन् ॥१३॥
तपन्नात्मप्रतापेन परितस्तपनोपमः ।
स जिगाय महाबाहुरुदारग्रहमंबरम् ॥१४॥
गतिमुत्कर्षिणीं बिभ्रत् प्रभंजन इव द्रुमम् ।
बद्धमूलं निजामस्य भुजदंभं बभंज सः ॥१५॥
ततस्तेनेभराम्ण तस्मै विध्वस्तविद्विषे ।
मन्ये संतुष्य शाहाय निजमर्धपदं ददे ॥१६॥
विरुद्धमिभरामस्य समृद्धनसेवितम् ।
मुधाभिधं फलस्थानपुराधिपतिमुद्धतम् ॥१७॥
प्रतिप्रस्थाय सन्नाहशाली शैलमिवोन्नतम् ।
स भूपः प्रसभं भूरिप्रभावं पर्यभावयत् ॥१८॥
निर्जित्य केरळान् क्रूरकर्मा कार्णाटकानपि ।
स कोषमिभरामस्य पुपोष बहुतोषकृत् ॥१९॥
सोऽन्यानपि नृपानुग्रान् निगृह्य निजनीतिभिः ।
तद्राज्यमिभरामस्य रामराज्यमिवाकरोत ॥२०॥
तमिन्दुसुन्दरमुखी सुदती यदुवंशजा ।
उपाचरन्महाराजं गौरीव वृषभद्ध्वजम् ॥२१॥
सा भृशं विभ्रमवती प्रसादाभिमुखी सती ।
देवी सफलयामास पत्युस्तत्तदभीप्सितम् ॥२२॥
तस्य तस्यामजायन्त पुत्राष्षट् शुभलक्षणाः ।
तेषां मध्ये शंभुशिवौ द्वावेवान्वयवर्धनौ ॥२३॥
शिवस्तु वैष्णवं तेजोऽवतीर्य क्ष्गोणिमण्डलम् ।
समस्तभूभृतां नेता विनेता प्रतिभूभृताम् ॥२४॥
तथाहमभिधास्यामि शृणुत द्विजसत्तमाः ॥२५॥
पुरा पुरारिमाराध्य तीव्रेण तपसान्वहम् ।
निषेधाच्छ्रुतिशास्त्राणां कालः कलिरवर्धत ॥२६॥
हितावहमसाधूनां साधूनामहितावहम् ।
दैत्यास्ततस्तमासाद्य पापीयांसमनेहसम् ॥२७॥
छद्मिनो म्लेच्छरूपेण देवभूदेवविद्विषः ।
अवातरन्वसुमतीमधिविप्लावहेतवः ॥२८॥
प्रतीचीं ककुभं तावदुदीचीं तदन्तरम् ।
जगृहुस्ते बलात् प्राचीमपाचीमपि दुर्ग्रहाम् ॥२९॥
तेषां निजनयज्ञानां न यज्ञानां प्रवृत्तयः ।
तथापि तिष्यस्य बलात् भृशं ववधिरे श्रियः ॥३०॥
उत्थाप्य स्थापिताः केचित् केचिद्युद्धे निपातिताः ।
बलिभिस्तैस्ततः प्रायः क्षत्रियाः क्षीणतां गताः ॥३१॥
ततो विश्वंभरा देवी म्लेच्छभारभरार्दिता ।
प्रत्यपद्यत लोकेशं शरण्यं शरणैषिणी ॥३२॥
परितापेन महता मलिना नलिनासनम् ।
सा ववन्दे त्रयस्त्रिंशत्कोटित्रिदशवन्दितम् ॥३३॥
निवेदयित्री निर्वेदवती खेदमनेकधा ।
सा निबद्धांजलिपुटा प्रोवाच परमेष्ठिनम् ॥३४॥
त्वं पिता सर्वलोकस्य त्रयीधर्मस्थितिप्रियः ।
लोकेश मां तमोंऽभोधौ मज्जन्तीं किमुपेक्षसे ॥३५॥
त्वया विरचितं विश्वं विरिंचे यच्चराचरम् ।
दनुजैर्म्लेच्छतनुभिः तदद्य बत सीदति ॥३६॥
ये हताः प्रथमं देवैर्दुर्मदास्त्रिदशद्विषः ।
ते मां तुदन्ति तिष्येऽस्मिन् उपेत्य म्लेच्छरूपताम् ॥३७॥
दुष्टदैत्यान्तके कृष्णे निजं धामाधितिष्ठति ।
बुद्धावतारे भगवत्यापि मौनावलंबिनि ॥३८॥
दुर्जना यवनास्तात वृजितानि चितन्वते ।
त्रातारं नाधिगच्छामि नियच्छेयं कथं व्यथाम् ॥३९॥
नाहूयन्ते दिविषदो न हूयन्ते हुताशनाः ।
न वेदा अप्यधीयन्ते नाभ्यर्चन्ते द्विजातयः ॥४०॥
न सत्राणि प्रवर्तन्ते तथैव च मखक्रियाः ।
न दानानि विधीयन्ते विहीयन्ते व्रतानि च ॥४१॥
खिद्यन्ते साधवस्सर्वे भिद्यन्ते धर्मसेतवः ।
म्लेच्छधर्माः प्रवर्धन्ते हन्यन्ते धेनवोऽपि च ॥४२॥
सज्जना यान्ति विलयं व्रजन्ति क्षत्रियाः क्षयम् ।
प्रादुर्भूतमिदानीं मे यवनोभ्यो महद्भयम् ॥४३॥
विहसन्ति तथा सर्वे मां म्लेच्छवशवर्तिनीम् ।
स्थितां यथागतमुखे श्रुतिं श्रुतिविदो यथा ॥४४॥
उदभूत् पूर्वदेवेभ्यो भयं मम यदा यदा ।
तदा तदा प्रभवता भवता ह्यवितास्म्यहम् ॥४५॥
इदं निगद्य जगती जगतीनामधीश्वरम् ।
बभूव तूष्णीमित्युष्णं निश्वसन्त्यश्रुलोचना ॥४६॥
पितामहस्तामालोक्य विहस्तामस्थिरां स्थिराम् ।
एवमाश्वासयामास विश्वविश्वासवासभूः ॥४७॥
मा भैषीर्भीरु भव्यं ते भविताशु वसुन्धरे ।
स्वस्था त्वं स्थानमास्थाय स्थिरे स्थिरतरा भव ॥४८॥
मया पुरा मुरारातिस्त्वन्निमित्तं दयांबुधिः ।
प्रार्थितः परया भक्त्या स्वयमेतदुवाच माम् ॥४९॥
विधे विधेहि मा चिन्तामवधेहि वचो मम ।
भवतोऽभिमतं तावदचिरेण भविष्यति ॥५०॥
मालवर्मात्मजश्शाहवर्मा यः पार्थिवोत्तमः ।
दाक्षिणात्यो महाराजः कृतकर्मा सुलक्षणः ॥५१॥
तरसा मारुतसमस्तेजसा तपनोपमः ।
वर्वर्ति विश्वाविजयी पुण्यात्मा पृथुविक्रमः ॥५२॥
तस्य भार्या महासाध्वी जिजूर्विजयवर्धिनी ।
नन्दिनी यादवेन्द्रस्य जागर्ति जगतीतले ॥५३॥
सा मां तेजोमयं देवी स्वोदरे धारयिष्यति ।
तत्पुत्रतां प्रपद्याहं करिष्यामि तव प्रियम् ॥५४॥
स्यापयिष्यामि धर्मस्य मर्यादां भुवि शाश्वतीम् ।
यवनान् सादयिष्यामि पालयिष्यामि देवताः ॥५५॥
पुनः प्रवर्तयिष्यामि सप्ततन्त्वादिकाः क्रियाः ।
क्षेमं गवां विधास्यामि स्थितिं चापि द्विजन्मनाम् ॥५६॥
प्रतिज्ञायेति भगवान् सत्यलोकाय मां विभुः ।
समनुज्ञातवान् भद्रे स्वयं भूतभविष्यवित् ॥५७॥
अभिधायेति वसुधां समाधाय पितामहः ।
विससर्ज स्वयं सापि स्वकं लोकमलोकत ॥५८॥
तां वाचं भूतधात्री त्रिभुवनसुहितां हृत्समाधेर्विधात्रीं
वैधात्रीं न्यस्य चित्ते तमभिक्मतमथानेहसं प्रेक्षमाणा ।
म्लेच्छच्छद्मासुरेभ्योऽभ्युदितमतितरामुज्ज्ञती भीतीभारं
हंत ब्रह्मर्षिदेवद्विजकुलसहिता निर्भरं नन्दति स्म ॥५९॥
हरिरपि भुवमुच्चैर्भूरिभारायमाण -
त्रिदशरिपुसहस्राक्रान्तरूपामजस्रम् ।
सपदि सदयचित्तस्त्रातुकामः समग्रां
बत निरुपममूर्तिर्मानुषं भावमैच्छत् ॥६०॥
इत्यनुपुराणे कवीन्द्रविरचिते पंचमोऽध्यायः
विष्ण्ववतारकथनम्