सोमवार, 26 ऑगस्ट 2024 (14:39 IST)
श्रीगणेशाय नमः । श्रीसांबसदाशिवाय नमः । श्रीमहाकाली - महालक्ष्मी - महासरस्वती - देवताभ्यो नमः । श्रीरस्तु ।
वन्दारुविबुधोदारमौलिकन्दारदामभिः ।
स्विद्यत्पदारविन्दाय गोविन्दाय नमो नमः ॥१॥
कदाचित् परमानन्दशर्मा ब्राह्मणसत्तमः ।
तीर्थयात्राप्रसङ्गेन पुरीं वाराणसीं ययौ ॥२॥
मुच्यन्ते यत्न सर्वेऽपि मुक्तिरेव न मुच्यते ।
यत्नोपदिशति ब्रह्म तारकं स्वयमीश्वरः ॥३॥
तत्र तीर्थविधिं कृत्वा दृष्ट्वा देवं महेश्वरम् ।
पुण्ये भागीरथीतीरे निषसाद स धर्मवित् ॥४॥
तं वै पद्मासनासीनं विस्फुरद्ब्रह्मवर्चसम् ।
वेत्तारं सर्वशास्त्राणां वित्तमध्यात्मवित्तमम् ॥५॥
पौराणिकानां प्रवरं भट्टगोविन्दनंन्दनम् ।
एकवीराप्रसादेन लब्धवाक्सिद्धिवैभवम् ॥६॥
कवींद्रं परमानन्दं परमानन्दविग्रहम् ।
दृष्ट्वा प्रमुदितास्तत्न विज्ञाः काशीनिवासिनः ॥७॥
स तानुदारचरितान् प्रत्युत्थायाभिवाद्य च ।
पूजयामास विधिवत् संप्राप्तानतिथीनिव ॥८॥
परिवार्योपविविशुस्ते सर्वे तं द्विजोत्तमाः ।
शुश्रूषमाणाश्चरितं प्रथितं शिवभूपतेः ॥९॥
ततः प्रमनसस्सर्वे तमूचुस्ते मनीषिणः ।
कर्तारं चारुकाव्यानामवतारं बृहस्पतेः ॥१०॥
मनीषिण ऊचुः
यः शास्ति वसुधामेतां राजा राजगिरीश्वरः ।
तुलजायाः प्रसादेन लब्धराज्यो महातपाः ॥११॥
विष्णोरंशो विशेषेण लोकपालांशसंभवः ।
मनस्वी सुप्रसन्नात्मा प्रतापी विजितेंद्रियः ॥१२॥
भीमादपि महाभीमः सीमा सर्वधनुर्भृताम् ।
धीमानुदारचरितः श्रीमानद्भुतविक्रमः ॥१३॥
कृती कृतज्ञः सुकृती कृतात्मा कृतलक्षणः ।
वक्ता वाक्यस्य सत्यस्य श्रोता चातिविचक्षणः ॥१४॥
देवद्विजगवां गोप्ता दुर्दान्तयवनान्तकः ।
प्रपन्नानां परित्नाता प्रजानां प्रियकारकः ॥१५॥
तस्यास्य चरितं ब्रह्मन्ननेकाध्यायगर्भितम् ।
भगवत्याः प्रसादेन भवता यत् प्रकाशितम् ॥१६॥
उदारशब्दसन्दर्भं भूरिभावार्थमद्भुतम् ।
माधुर्यादिगुणोपेतमलंकारैरलंकृतम् ॥१७॥
निचितं धर्मशास्त्रार्थैरर्थशास्त्रसमान्वितम् ।
विश्रुतं सर्वलोकेषु पुराणमिव नूतनम् ॥१८॥
समस्तदोषरहितं सहितं लक्षणैर्निजैः ।
तदशेषमशेषज्ञ शंस नः शंसितव्रत ॥१९॥
इति वाराणसीस्थेन मण्डलेन मनीषिणाम् ।
प्रोक्तः प्रोवाच धर्मात्मा कवीण्द्रो वदतां वरः ॥२०॥
कवींद्र उवाच
एकवीरां भगवतीं गणेशं च सरस्वतीं ।
सद्गुरुं च महासिद्धं सिद्धानामपि सिद्धिदम् ॥२१॥
प्रणिपत्य प्रवक्ष्यामि महाराजस्य धीमतः ।
चरितं शिवराजस्य भरतस्येव भारतम् ॥२२॥
कलिकल्मषहारीणि हारीणि जनचेतसाम् ।
यशांसि शिवराजस्य श्रोतव्यानि मनीषिभिः ॥२३॥
योऽयं विजयते वीरः पर्वतानामधीश्वरः ।
दाक्षिणात्यो महाराजः शाहराजात्मजः शिवः ॥२४॥
साक्षान्नारायणस्यांशस्त्रिदशद्वेषिदारणः ।
स एकदात्मनिष्ठं मां प्रसाद्येदमभाषत ॥२५॥
यानि यानि चरित्राणि विहितानि मया भुवि ।
विधीयन्ते च सुमते तानि सर्वाणि वर्णय ॥२६॥
मालभूपमुपक्रम्य प्रथितं मत्पितामहम् ।
कथामेतां महाभाग महनीयां निरूपय ॥२७॥
तस्येमां वाचमनघामभिनन्द्य द्विजोत्तमाः ।
प्रतिश्रुत्य गृहानेत्य स्वयमेतदचिन्तयम् ॥२८॥
अहो कथमहं कुर्यां भारतप्रतिमं महत् ।
अमानुषचरित्नस्य शिवस्यैतत् समीहितम् ॥२९॥
इति संचिन्तयन्तं मां चिरसुस्थिरचेतसम् ।
देवी भगवती साक्षात् समेत्येदमवोचत ॥३०॥
देव्युवाच
कवींद्र कुरु मा चिन्तामनुकूलास्म्यहं तव ।
ममादेशादयं राजा त्वामिदं कार्यमादिशत् ॥३१॥
एवमाश्वासयन्ती मां कृपालुः कुलदेवता ।
चतुर्भुजा भगवती हृदयं मे समाविशत् ॥३२॥
तदाप्रभृति वाग्ब्रह्म समग्रं पश्यतो मम ।
जागर्त्यर्थेंन सहितं रसनाग्रमधिष्ठितम् ॥३३॥
अनागतानां भावानामतीतानां च सर्वशः ।
साक्षात् सन्दर्शनेनाहममानुष इवाभवम् ॥३४॥
कृतकृत्यमथात्मानं मन्यमानेन वै मया ।
कृतमेतन्महापुण्यमाख्यानमनघव्रताः ॥३५॥
यत्रास्ते महिमा शंभोर्महादेवस्य वर्णितः ।
दुर्वृत्तासुरमर्दिन्यास्तुलजायास्तथैव च ॥३६॥
धर्मस्यार्थस्य कामस्य मोक्षस्य च यथायथम् ।
तीर्थानामपि माहात्म्यं यत्र सम्यङ्निरूपितम् ॥३७॥
यत्र युद्धान्यनेकानि शिवस्य यवनैः सह ।
तेषामेव विनाशार्थमवतीर्णस्य भूतले ॥३८॥
देवानां ब्राह्मणानां च गवां च महिमाधिकम् ।
पवित्राणि विचित्राणि चरित्राणि च भूभुजाम् ॥३९॥
गजानां तुरगाणां च दुर्गाणां लक्षणानि च ।
निरूपितान्यशेषेण राजनीतिश्च शाश्वती ॥४०॥
तं सूर्यवंशमनघं कथ्यमानं मयादितः ।
सर्वेऽप्यवहितात्मानः शृणुध्वं शृण्वतां वराः ॥४१॥
दक्षिणस्यां दिशि श्रीमान् मालवर्मा नरेश्वरः ।
बभूव वंशे सूर्यस्य स्वयं सूर्य इवौजसा ॥४२॥
महाराष्ट्रं जनपदं महाराष्टस्स भूमिपः ।
प्रशशास प्रसन्नात्मा निजधर्मधुरंधरः ॥४३॥
कमलायतनेत्रोऽसौ कमलापतिविक्रमः ।
शुशुभे गुणगंभीरः प्रजारंजनमाचरन् ॥४४॥
स पुण्यदेशे धर्मात्मा निवासं स्वमकल्पयत् ।
तन्वन् सौराज्यमधिकं नदीं भीमरथीमनु ॥४५॥
त्वङ्गत्तुरंगमखुरक्षुण्णभीमरथीतटः ।
समुद्यद्दुंन्दुभिध्वानविभ्रमक्षोभितार्णवः ॥४६॥
प्रतापतापिताऽरातिधराधिपतिमण्डलः ।
सह्याद्रिखण्डमखिलं बुभुजे स बली बलात् ॥४७॥
द्विषद्भिर्दुस्सहः सोऽभोद् धुर्यः सर्वधनुष्मताम् ।
नारायणांससंभूतो धनुञ्जय इवापरः ॥४८॥
महावंशसमुद्भूतामुमां नाम यशस्विनीम् ।
उपयेमे स विधिना सावित्रीं सत्यवानिव ॥४९॥
अथासौ बहु मेने तामनुरूपगुणान्विताम् ।
अजो रघुसुतश्श्रीमान् साध्वीमिन्दुमतीमिव ॥५०॥
प्रसादमिव पार्वत्या दत्तमात्मीयमात्मना ।
उमेति भूषयामास नामधेयमुमा सती ॥५१॥
अथ श्रीदसमृद्धश्रीः स तया सुदृशान्वितः ।
समाचचार मतिमान् कृती धर्माननेकधा ॥५२॥
अग्निहोत्राणि सत्राणि यज्ञास्सुबहुदक्षिणाः ।
महादानान्यपि तथा राष्ट्रे तस्य सदाऽभवन् ॥५३॥
स शंभुप्रीतये शंभोर्भक्तस्सागरनन्निभम् ।
मधुरं खानयामास तडागं शंभुपर्वते ॥५४॥
सुवर्णसानुप्रतिमान् प्रासादानुच्चतोरणान् ।
आरामानभिरामांश्च भूरिभूरुहभूषितान् ॥५५॥
दीर्घाश्च दीर्घिकाः स्वर्णसोपानपथभूषिताः ।
धर्मात्मा कारयामास प्रपाश्शालाश्च भूरिशः ॥५६॥
तमन्वगात् सुमहती चतुरङ्गा पताकिनी ।
महासत्त्वं महासत्त्वा स्वर्णदीव भगीरथम् ॥५७॥
तमुन्नतं नमन्ति स्म सामन्ताः पृथिवीभृतः ।
समीरणसमुद्वेलं वंजुला इव वारिधिम् ॥५८॥
एतस्मिन्नेव समये दुर्गं देवगिरिं श्रयन् ।
निजामशाहो धर्मात्मा पालयामास मेदिनीम् ॥५९॥
तमसेवन्त सततं यवनानामधीश्वरम् ।
सर्वे यादवराजाद्या दाक्षिणात्याः क्षमाभुजः ॥६०॥
तदा येदिलशाहोऽपि पत्तने विजयाह्वये ।
निवसन् राज्यमकरोदयवनो यवनैर्वृतः ॥६१॥
अथ केनाऽपि कालेन निमित्तेन बलीयसा ।
येदिलेन निजामस्य विरोधस्सुमहानभूत् ॥६२॥
तदा तं मालभूपालं कालं प्रतिमहीभृताम् ।
श्रुत्वा निजामो मेधावी साहाय्ये समकल्पयत् ॥६३॥
ततस्तस्य प्रियं तत्र कर्तुमप्रतिमद्युतिः ।
गत्वा देवगिरिं मालमहीपतिरुवास ह ॥६४॥
अथ विठ्ठलराजोऽस्य भ्राता भीमपराक्रमः ।
समेतस्स्वपताकिन्या भेजे धारागिरीश्वरम् ॥६५॥
प्रीतात्मा च निजामोऽपि निजमन्तिकमागतौ ।
तावुभौ पूजयामास सामदानेन भूयसा ॥६६॥
ये ये निजामशाहस्य प्राभवन् परिपन्थिनः ।
तांस्तानुत्सादयामास मालवर्मा महाभुजः ॥६७॥
तथा विठ्ठलराजोऽपि निजामस्य चिकीर्पिंतम् ।
सहायीभूत सततं चक्रे शक्रपराक्रमः ॥६८॥
यद्यप्यासन्निजामस्य सहायास्तत्र भूरिशः ।
तथापि मालवर्मैव सर्वेभ्योऽभ्यधिकोऽभवत् ॥६९॥
कुलक्रमागतं राज्यं निधाय निजमन्त्रिषु ।
दत्तं निजामशाहेन देशमन्यं शशास सः ॥७०॥
अथ तस्य सभार्यस्य सुतजन्म्समुज्वलाम् ।
श्रियं समीहमानस्य दिनानि सुबहून्ययुः ॥७१॥
सन्तानार्थी स नृपतिर्धर्मपत्नीसमन्वितः ।
देवदेवं महादेवमारराध महाव्रतः ॥७२॥
अथ कालेन महता देवी तस्य महौजसः ।
आनन्दयन्ती दयितं ससत्त्वा समजायत ॥७३॥
ततः सा दशमे मासि प्रस्फुरद्राजलक्षणम् ।
सुमुखं शुभवेलायां सुषुवे सुतमद्भुतम् ॥७४॥
सुनसं सुविशालाक्षं सुभालं श्लक्ष्णकुन्तलम् ।
विस्तीर्णवक्षसं दीर्घभुजमानद्धकन्धरम् ॥७५॥
सुवर्णवर्णमरुणस्निग्धपाणिपदांबुजम् ।
प्रोद्धासयन्तं भवनं प्रभूतेन स्वतेजसा ॥७६॥
तं दृष्ट्वा मुदितास्तत्र धात्र्यः संजातसंभ्रमाः ।
राज्ञे निवेदयामासुर्जनैश्शुद्धान्तचारिभिः ॥७७॥
ततस्तमुत्सवं श्रुत्वा सुतजन्मसमुद्भवम् ।
पीयूषवर्षसंसिक्तप्रतीक इव सोऽभवत् ॥७८॥
ततः समुत्सुकोऽभ्येत्य नृपतिर्द्रुतमाप्लुतः ।
आननं सुकुमारस्य कुमारस्य व्यलोकत ॥७९॥
अथ प्रमुदितस्तत्र समेतः स्वपुरोधसा ।
चकार जातकर्मास्य स्वस्तिवाचनपूर्वकम् ॥८०॥
जाते राजकुमारेऽस्मिन् कुमारसमतेजसि ।
नेदुर्मङ्गलवाद्यानि ननृतुर्वारयोषितः ॥८१॥
स्वरेण स्निग्धतारेण जगुर्गीतानि गायनाः ।
पेठुश्च प्रस्थितामुच्चै र्बन्दिनो बिरुदावलिम् ॥८२॥
अमोघाभिस्तथाशीर्भिरभ्यनन्दन् द्विजोत्तमाः ।
गृहे ग्रुहे विशेषेण ववृधे स महोत्सवः ॥८३॥
महामुक्ताः प्रवालानि रत्नालंकरणानि च ।
स्वर्णानि स्वर्णवासांसि गास्तुरंगान् गजानपि ॥८४॥
जनाय याचमानाय ददानः स तदा प्रभुः ।
ददृशे मनुजैस्साक्षात् कल्पद्रुम इवापरः ॥८५॥
अथ मौहूर्तिकादिष्टे विध्युक्तेऽहनि शोभने ।
पिता चक्रे कुमारस्य नाम शाह इति स्वयम् ॥८६॥
दिने दिने स ववृधे शिशुः सरसिजाननः ।
पित्रोस्संवर्धयन् स्वाभिर्लीलाभिर्लोचनोत्सवम् ॥८७॥
अथ वर्षद्वयेऽतीते द्वितीयमपि नन्दनम् ।
लेभे महीपतेः पत्नी मूर्तिमन्तमिवोत्सवम् ॥८८॥
तस्य जातस्य हि विधिं संविधाय बुधैस्सह ।
शरीफ इति सिद्धोक्तं नामघेयं व्यधाद्विभुः ॥८९॥
तौ शाहश्च शरीफश्च सिद्धनामांकितावुभौ ।
ववृधाते श्रिया सार्धं कुमारौ कुलदीपकौं ॥९०॥
अथ समुदितराजलक्षणाभ्यां
मुदितमनाः स्वजनान्वितः स ताभ्याम् ।
नृपातिकुलवतंसमात्मवंशं ।
भुवमधिपल्लवितं प्रभूयमेने ॥९१॥
कथितमिति मया जगत्प्रतीतं
शुभमिहराजकुमारजन्म तावत् ।
कलिकलुषहरं निशम्य धीमा -
ननुभवात स्वसमीहितानि सद्यः ॥९२॥
इत्यनुपुराणे सूर्यवंशे कवीन्द्रपरमानन्दप्रकाशितायां शतसाहस्र्यां संहितायां कुमारप्रभवो नाम प्रथमोऽध्ययः