सोमवार, 26 ऑगस्ट 2024 (15:16 IST)
कवीन्द्र उवाच ॥
अथ तं शिशुरूपेण ललन्तं ललितद्युतिम् ।
नजानीतः स्म पितरावमानुषमुरुक्रमम् ॥१॥
अवतीर्णःक्षितितलं क्षोणीभारापनुत्तये ।
विहरन् बालरूपेणशाहराजनिकेतने ॥२॥
जनयित्रीं जनं चापि रंजयन् निजया श्रिया ।
अचेष्टत स सर्वात्मा तत्र तत्तद्विचेष्टितम् ॥३॥
सुत्रामकांक्षितं कर्तुं दितेः पुत्राननेकशः ।
संगरे संगरे हत्वा चतुर्बाहुरुदायुधः ॥४॥
यः श्रान्त इव निद्राति मध्ये दुग्धमहोदधेः ।
जननीस्तन्यपानाय व्यतानीद्रुदितानि सः ॥५॥
शिशुलीलाधरो रिंगन्स हरिन्मणिभूमिषु ।
प्रतिबिंबितमात्मानं बलेनदातुमैहत ॥६॥
जानुभ्यां रिंगतस्तस्य पदांबुजतलत्विषा ।
पद्मरागश्रियं प्रापुः प्रांगणस्थास्सितोपलाः ॥७॥
धूलिधूसरितांगस्य रिंगतोस्य गृहांगणे ।
रंजयामास जननीं मणिमंजीर हींजितम् ॥८॥
स लीलातरलस्तत्ररिंगन्मणिमयेंगणे ।
बतात्मप्रतिबिंबेन प्रास्पर्धत पदे पदे ॥९॥
अपिबन्यत्प्रसादेन सुधां सर्वे सुधान्धसः ।
अहो सोपि मुदं प्रपादास्वाद्य मृदुलां मृदम् ॥१०॥
छलयन् यो बलिंलोकाम्स्त्रीन्ललंघे त्रिभिः क्रमैः ।
बतालंघत यत्नेन सदेवो गेह देहलीम् ॥११॥
सप्तानामपि लोकानां योवलंबः स्वयं प्रभुः ।
उदतिष्ठदहो धृत्वा सोपि धात्रीकरांगुलिम् ॥१२॥
धवलोपलबद्धासु भित्तिषु प्रतिबिंबितम् ।
बिंबमंशुमतो वीक्ष्य तर्जन्यग्रेणदर्शन् ॥१३॥
आदाय निजाहस्तेन मह्यं देहीत्यहोरुदन् ।
समुग्ध इव मौग्ध्येन मातरं पर्यहासयत् ॥१४॥
स्वहस्तपुष्करोध्दूत धूळिधूसरमस्तकम् ।
उद्भिद्यमानदंताग्र कुंदकुड्मळ भूषितम् ॥१५॥
ललंतं निलयद्वारि द्विरदस्येव शावकम् ।
विनेतुमागताधात्री विलोक्य स्तिमिताभवत् ॥१६॥
स धात्री करतालीभिः संवरेधितकुतूहलः ।
कुरुतेस्म स्मेरमुखो लास्यलीलामनेकधा ॥१७॥
अपाठ्यद्विधातारं निगमान्यः सलक्षणान् ।
सोपि धात्रीमुखात्तत्तन्नामधेयमपीपठत् ॥१८॥
उत्तार्योतार्य तरसा स्वरसात्ससमर्धकः ।
व्यश्राणयदलंकारान् धात्रीभ्यस्स्वशरीरतः ॥१९॥
अनादृत्यपितुस्तांस्तान् द्विपान्दृप्तांस्तथाहयान् ।
प्रभुर्मंतुममंतुंच बह्वमंस्त स मृन्मयान् ॥२०॥
स्पृहयाळुश्शिखंडेभ्यः शोभमानाशिखंडकः ।
अन्वधावदहोडिंभः सखंडानिशिखंडिनाम् ॥२१॥
शिखिनां च शुकानां च पिकानां च रुतान्यसौ ।
विकुर्वाणोनुकुर्वाणस्तत्तद्भ्रमकरोभवत् ॥२२॥
स एष किल कुर्वाणः शिशुश्शार्दूळ शाब्दितम् ।
पार्श्ववर्ती स्नेहपात्रीमपिधात्रीमभीषयत् ॥२३॥
अभ्रांतोपिभ्रमरवद् भ्रमिं भ्रांतः कदाचन ।
हृष्टो हय इवहेषामह्लेषत कदाचन ॥२४॥
उच्चैरुदचरेद्दन्ति बृंहितानि कदाचन ॥२५॥
पूरयद्भिर्धरांद्यां च गभीरमधुरस्वरैः ।
सोभिमानपरोभेरीमन्वकार्षीत् कदाचन ॥२६॥
मृत्कूटान्यपि तुंगानि कारयन् स किशोरकैः ।
इमानि ममदुर्गाणीत्यवोचत कदाचन ॥२७॥
निलीनः सद्मनः कोणे दृड्निमीलनकेलिषु ।
अन्विष्य सखिभिः स्पृष्टो हसतिस्म कदाचन ॥२८॥
पतितं पाणिना हस्तदुत्पततं मुहुर्मुहुः ।
अताडयत् पातयितुं कन्दुकंच कदाचन ॥२९॥
आत्मनोत्पातितंदूरात् पतंतं व्योममंडलात् ।
कंदुकं कृष्णसाराक्षः पश्यन्नवहितोन्मुखः ॥३०॥
नृत्यन्निव पदद्वंद्व तलताडितभूतलः ।
प्रोत्तानिताभ्यां पाणिभ्यामग्रहीत्स कदाचन ॥३१॥
दृष्टो हरति यस्तूर्णं जन्मिनां जननभ्रमम् ।
अभ्रामयदहोदारुभ्रमरं स कदाचन ॥३२॥
प्रतिषिद्धोपिधात्रीभिस्तर्जनी तर्जनादिना ।
शाहसिंहशिशुस्तास्तां शिशुलीलां व्यगाहत ॥३३॥
भुंक्ष्वेत्युक्तोपिनाभुंक्त पिबेत्युक्तोपिनापिबत् ।
अनुनीय स धात्रीभिः शेष्वेत्युकोपिनास्वपत् ॥३४॥
तत्तद् खेलावसक्तात्मा स आत्मा जगतः परः ।
समाहूतो जनन्यापि व्यधाद्दूरमपाक्रमम् ॥३५॥
यत्रयत्राव्रजद् बाललीला रसवशः शिवः ।
तमन्वपालयंस्तत्र तत्रदेवास्सवासवाः ॥३६॥
यः श्रीमान् करुणानिधिः सुमनसामाधारभूतः स्वयं
संजातः किल शाहभूपभवने हर्तुं धरित्रीभयम् ।
वेदांतैः पठितः पुराणपुरुषः ख्यातः पुराणेषु य
स्तं प्राप्य श्रियमाबभार महतीं बाल्याभिधानं वयः ॥३७॥
इत्यनुपुराणे कवींद्रपरमानंदविरचिते शिशुलीलावर्णनं नाम सप्तमोध्यायः