श्री शिवरात्री व्रत-कथा (संस्कृत)
लोमश उवाच
आसीत् पुरा महारौद्रश्चण्डो नाम दुरात्मवान्।
क्रूरसंगो निष्कृतिको भूतानां भयवाहकः ॥१॥
जालेन मत्स्यान् दुष्टात्मा घातयत्यनिशं खलु।
भल्लैर्मृगाञ्छ्वापदांश्च कृष्णसारांश्च सल्लकान् ॥२॥
खड्गांश्चैव च दुष्टात्मा दृष्टवा कांश्चिच्च पापवान्।
पक्षिणोऽघातयत् क्रुद्धो ब्राह्मणांश्च विशेषतः ॥३॥
लुब्धको हि महापापो दुष्टो दुष्जनप्रियः।
भार्या तथाविधा तस्य पुष्कसस्य महाभया ॥४॥
एवं विहरतस्तस्य बहुकालोऽत्यवर्तत।
गते बहुतिथे काले पापौघनिरतस्य च ॥५॥
निषंगे जलमादाय क्षुत्पिपासार्द्दितो भृशम्।
एकदा निशि पापीयाञ्च्छ्रीवृक्षोपरि संस्थितः ॥६॥
कोलं हन्तुं धनुष्पाणिर्जाग्रच्चानिमिषेण हि।
माघमासेऽसितायां वै चतुर्दश्यामथाग्रतः ॥७॥
मृगमार्गावलोकार्थी बिल्वपत्राण्यपातयत् ॥८॥
श्री वृक्षपर्णानि बहूनि तत्र स छेदयामास रुषान्वितोऽपि।
श्रीवृक्षमूले परिवर्त्तमानो लिंगं च तस्योपरि दुष्टभावः ॥९॥
ववर्ष गण्डूषजलं दुरात्मा यदृच्छया तानि शिवे पतन्ति।
श्रीवृक्षपर्णानि च दैवयोगा- ज्जातं च सर्वं शिवपूजनं तत् ॥१०॥
गण्डूषवारिणा तेन स्त्रपनं च कृतं महत्।
बिल्वपत्रैरसंख्यातैरर्चनं च महत् कृतम् ॥११॥
अज्ञानेनापि भो विप्राः पुष्कसेन दुरात्मना।
माघमासेऽसिते पक्षे चतुर्दश्यां विधूदये ॥१२॥
पुष्कसोऽथ दुराचारो वृक्षादवततार सः।
आगत्य जलसंकाशं मत्स्यान् हन्तुं प्रचक्रमे ॥१३॥
लुब्धकस्यापि भार्याभून्नाम्ना चैव घनोदरी।
दुष्टासा पापनिरता परद्रव्यापहारिणी ॥१४॥
गृहान्निर्गत्य सायाह्ने पुरद्वारबहिःस्थिता।
वनमार्गं प्रपश्यन्ती पत्युरागमनेच्छया ॥१५॥
चिराद् भर्तरि नायाते चिन्तयामास लुब्धकी।
अद्य सायाह्नवेलायामागताः सर्वलुब्धकाः ॥१६॥
तमःस्तोमेन संच्छन्नाश्चतस्त्रो विदिशो दिशः।
रात्रौ यामद्वयं यातं किं मतंगः समागतः ॥१७॥
किं वा केसरलोभेन सिंहेनैव विदारितः ।
किं भुजंगफणारत्नहारी सर्पविषार्दितः ॥१८॥
किं वा वराहद्रंष्ट्राग्रघातैः पञ्चत्वमागः।
मधुलोभेन वृक्षाग्रात् स वै प्रपतितो भुवि ॥१९॥
का वान्वेषयामि पृच्छामि क्व गच्छामि च कं प्रति।
एवं विलप्य बहुधा निवृत्ता स्वं गृहं प्रति ॥२०॥
नैवान्नं नो जलं किंचिन्न भुक्तं तद्दिने तया।
चिन्तयन्ती पतिं चापि लुब्धकी त्वनयन्निशाम् ॥२१॥
अथ प्रभाते विमले पुष्कसी वनमाययौ।
अशनार्थं चल तस्यान्नमादाय त्वरिता सती ॥२२॥
भ्रममाणा वने तस्मिन् ददर्श महतीं नदीम्।
तस्यास्तीरे समासीनं स्वपतिं प्रेक्ष्य हर्षिता ॥२३॥
तदन्नं कूलतः स्थाप्य नदीं तर्तुं प्रचक्रमे।
निरीक्ष्य चाथ मत्स्यान् स जालप्रोतान् समानयत् ॥२४॥
तावत् तयोक्तश्चण्डोऽसावेहि शीघ्रं च भक्षय।
अन्नं त्वदर्थमानीतमुपोष्य दिवसं मया ॥२५॥
कृतं किमद्य रे मन्द गतेऽहनि च किं कृतम्।
नाशितं च त्वया मूढ लंघितेनाद्य पापिना ॥२६॥
नद्यां स्नात्रौ तथा तौ च दम्पती च शुचिव्रतौ।
यावद् गतश्च भोक्तुं स तावच्छ्वा स्वयंमागतः ॥२७॥
तेन सर्वं भक्षितं च तदन्नं स्वयमेव हि।
चण्डी प्रकुपिता चैव श्वानं हन्तुमुपस्थिता ॥२८॥
आवयोर्भक्षितं चान्नमनेनैव च पापिना।
किं च भक्षयसे मूढ भविताद्य बुभुक्षितः ॥२९॥
एवं तयोक्तश्चण्डोऽसौ बभाषे तां शिवप्रियः।
यच्छुना भक्षितं चान्नं तेनाहं परितोषितः ॥३०॥
किमनेन शरीरेण नश्वरेण गतायुषा।
शरीरं दुर्लभं लोके पूज्यते क्षणभंगुरम् ॥३१॥
ये पुष्णन्ति निजं देहं सर्वभोवेन चाहताः।
मूढास्ते पापिनो ज्ञेया लोकद्वयबहिष्कृताः ॥३२॥
तस्मान्मानं परित्यज्य क्रोधं च दुरवग्रहम्।
स्वस्था भव विमर्शेन तत्त्वबुद्धद्या स्थिरा भव ॥३३॥
बोधिता तेन चण्डी सा पुष्कसेन तदा भृशम्।
जागरादि च सम्प्राप्तः पुष्कसोऽपि चतुर्दशीम् ॥३४॥
शिवरात्रिप्रसंगाच्च जायते यद्धद्यसंशयम्।
तज्ज्ञानं परमं प्राप्तः शिवरात्रिप्रसंगतः ॥३५॥
यामद्वयं च संजातममावस्यां तु तत्र वै।
आगताश्च गणास्तत्र बहवः शिवनोदिताः ॥३६॥
विमानानि बहून्यत्र आगतानि तदन्तिकम्।
दृष्टानितेन तान्येव विमानानि गणास्तथा ॥३७॥
उवाच परया भक्त्या पुष्कसोऽपि च तान् प्रति।
कस्मात् समागता यूयं सर्वे रुद्राक्षधारिणः ॥३८॥
विमानस्थाश्च केचिच्च वृषारूढाश्च केचन।
सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्धशेखराः ॥३९॥
कपर्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः।
श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतात्मनोचितम् ॥४०॥
पुष्कसेन तदा पृष्टा ऊचुः सर्वे च पार्षदाः।
रुद्रस्य देवदेवस्य संनम्राः कमलेक्षणाः ॥४१॥
गणा उवाच
प्रेषिताःस्मो वयं चण्ड शिवेन परमेष्ठिना।
आगच्छा त्वरितो भूत्वा सस्त्रीको यानमारुह ॥४२॥
लिंगर्चनं कृतं यच्च त्वया रात्रौ शिवस्य च।
तेन कर्मविपाकेन प्राप्तोऽसि शिवसंनिधिम् ॥४३॥
तथोक्तो वीरभद्रेण उवाच प्रहसन्निव।
पुष्कसोऽपि स्वयं बुद्धद्या प्रस्तावसदृशं वचः ॥४४॥
पुष्कस उवाच
किं मया कृतमद्यैव पापिना हिंसकेन च।
मृगयारसिकेनैव पुष्कसेन दुरात्मना ॥४५॥
पापाचारो ह्यहं नित्यं कथं स्वर्गं व्रजाम्यहम्।
कथं लिंगार्चनमिदं कृतमस्ति तदुच्यताम् ॥४६॥
परं कौतुकमापन्नः पृच्छामि त्वां यथातथम्।
कथयस्व महाभाग सर्वं चैव यथाविधि ॥४७॥
वीरभद्र उवाच
देवदेवो महादेवो देवानां पतिरीश्वरः ।
परितुष्टोऽद्य हे चण्ड स महेश उमापतिः ॥४८॥
प्रसंगिकतया माघे कृतं लिंगार्चनं त्वया।
शिवतुष्टिकरं चाद्य पूतोऽसि त्वं न संशयः ॥४९॥
शिवरात्र्यां प्रसंगेन कृतमर्चनमेव च।
कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि ॥५०॥
छेदितानि त्वया चण्ड पतितानि तदैव हि।
लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो ॥५१॥
ततश्च जागरो जातो महान् वृक्षोपरि धु्रवम्।
तेनैव जागरेणैव तुतोष जगदीश्वरः ॥५२॥
छलेनैव महाभाग कोलसंदर्शनेन हि।
शिवरात्रिदिने चात्र स्वप्नस्ते न च योषितः ॥५३॥
तेनोपवासेन च जागरेण तुष्टो ह्यसौ देववरो महात्मा।
तव प्रसादाय महानुभावो ददाति सर्वान् वरदो महांश्च ॥५४॥
एवमुक्तस्तदा तेन वीरभद्रेण धीमता।
पुष्कसोऽपि विमानाग्र्यमारुरोह च पश्यताम् ॥५५॥
गणानां देवतानां च सर्वेषां प्राणिनामपि।
तदा दुन्दुभयो नेदुर्भेर्यस्तूर्याण्यनेकशः ॥५६॥
वीणावेणुमृदंगानि तस्य चाग्रे गतानि च।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥५७॥
शिवसांनिध्यमगमच्चण्डोऽसौ तेन कर्मणा।
शिरात्र्युपवासेन परं स्थानमुपागमत् ॥५८॥
पुष्कसोऽपि तथा प्राप्तः प्रसंगेन सदाशिवम्।
किं पुनः श्रद्धया युक्ताः शिवाय परमात्मने ॥५९॥
पुष्पादिकं फलं गन्धं ताम्बूलं भक्ष्यमृद्धिमत्।
ये प्रयच्छन्ति लोकेऽस्मिन् रुद्रास्ते नात्र संशयः ॥६०॥
ऋषय ऊचुः
किं फलं तस्य चोद्देशः केनैव च पुरा कृतम्।
कस्माद् व्रतमिदं जातं कृतं केन पुरा विभो ॥६१॥
लोमश उवाच
यदा सृष्टं जगत् सर्वं ब्रह्मणा परमेष्ठिना।
कालचक्रं तदा जातं पुरा राशिसमन्वितम् ॥६२॥
द्वादश राशयस्तत्र नक्षत्राणि तथैव च।
सप्तविंशतिसंख्यानि मुख्यानि कार्यसिद्धये ॥६३॥
एभिः सर्वं प्रचण्डं च राशिभिरुडुभिस्तथा।
कालचक्रान्वितः कालः क्रीडयन् सृजते जगत् ॥६४॥
आब्रह्मस्तम्बपर्यन्तं सृजत्यवति हन्ति च।
निबद्धमस्ति तैेनैव कालेनैकेन भो द्विजाः ॥६५॥
कालो हि बलवाँल्लोके एक एव न चापरः।
भगतस्मात् कालात्मकं सर्वमिदं नास्त्यत्र संशयः ॥६६॥
आदौ कालः कालनाच्च लोकनायकनायकः ।
ततो लोका हि संजाताः सृष्टिश्च तदनन्तरम् ॥६७॥
सृष्टेर्लवो हि संजातो लवाच्च क्षणमेव च।
क्षणाच्च निमिषं जातं प्राणिनां हि निरंतरम् ॥६८॥
निमिषाणां च षष्ट्या वै पल इत्यभिधीयते।
पलैस्तु षष्टिभिश्चैव घटिकैकाभिजायते ॥६९॥
घटिकानां हि षष्ट्या वै अहोरात्रेति कथ्यते।
पञ्चदश्या अहोरात्रैः पक्ष इत्यभिधीयते ॥७०॥
पक्षाभ्यां मास एव स्यान्मासा द्वादश वत्सरः।
तं कालं ज्ञातुकामेन कार्यं ज्ञानं विचक्षणैः ॥७१॥
प्रतिपद्दिनमारभ्य पौर्णमास्यन्तमेव च।
पक्षः पूर्णो हि यस्माच्च पूर्णिमेत्यभिधीयते ॥७२॥
नष्टस्तु चन्द्रो यस्यां वै अमा सा कत्रता बुधैः।
अग्निष्वात्तादिपितृणां प्रियातीव बभूव ह ॥७३॥
त्रिंशद्दिनानि ह्येतानि पुण्यकालयुतानि च।
तेषां मध्ये विशेषो यस्तं श्रृणुध्वं द्विजोत्तमाः ॥७४॥
योगानां वा व्यतीपात उडूनां श्रवणस्तथा।
अमावस्या तिथीनां च पूर्णिमा वै तथैव च ॥७५॥
संक्रान्तयस्तथा ज्ञेयाः पवित्रा दानकर्मणि।
तथाष्टमी प्रिया शम्भोर्गणेशस्य चतुर्थिका ॥७६॥
पञ्चमी नागराजस्य कुमारस्य च षष्ठिका।
भानोश्च सप्तमी ज्ञेया नवमी चण्डिकाप्रिया ॥७७॥
ब्रह्मणो दशमी ज्ञेया रुद्रस्यैकादशी तथा।
विष्णुप्रिया द्वादशी च अन्तकस्य त्रयोदशी ॥७८॥
चतुर्दशी तथा शम्भोः प्रिया नास्त्यत्र संशयः।
निशीथसंयुता या तु कृष्णपक्षे चतुर्दशी ॥७९॥
उपोष्या सा तिथिः श्रेष्ठा शिवसायुज्यकारिणी।
शिवरात्रीति विख्याता सर्वपापप्रणाशिनी ॥८०॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
ब्राह्मणी विधवा काचित् पुरा ह्यासीच्च चञ्चला ॥८१॥
श्वपचाभिरता सा च कामुकी कामहेतुतः।
तस्यां तस्य सुतो जातः श्वपचस्य दुरात्मनः ॥८२॥
दुःसहो दुष्टनामात्मा सर्वधर्मबहिष्कृतः।
कितवश्च सुरापायी स्तेयीच गुरुतल्पगः ॥८३॥
मृगयुश्च दुरात्मासौ कर्मचाण्डाल एव सः।
अर्धमिष्ठो ह्यसद्वृत्तः कदाचिच्च शिवालयम् ॥८४॥
शिवरात्र्यां च सम्प्राप्तो ह्युषितः शिवसंनिधौ।
श्रवणं शैवशास्त्रस्य यदृच्छाजातमन्तिके ॥८५॥
तेन कर्मविपाकेन पुण्यां योनिमवाप्तवान्।
भुक्त्वा पुण्यतमाँल्लोकानुषित्वा शाश्वतीः समाः ॥८६॥
चित्रांगदस्य पुत्रोऽभूद् भूपालेश्वरलक्षणः।
नाम्ना विचित्रवीर्योऽसौ सुभगः सुन्दरीप्रियः ॥८७॥
राज्यं महत्तरं प्राप्य निःस्तम्भो हि महानभूत्।
शिवे भक्तिं प्रकुर्वाणः शिवकर्मपरोऽभवत् ॥८८॥
शैवशास्त्रं पुरस्कृत्य शिवपूजनतत्परः।
रात्रौ जागरणं यत्नात् करोति शिवसंनिधौ ॥८९॥
शिवस्य गाथां गायंस्तु आनन्दाश्रुकणान् मुहूः।
प्रमुञ्चंश्चैव नेत्राभ्यां रोमाञ्चपुलकावृतः ॥९०॥
आयुष्यं च गतं तस्य शिवध्यानपरस्य च।
शिवो हि शुलभो लोके पशूनां ज्ञानिनामपि ॥९१॥
संसेवितुं सुखप्राप्त्यै ह्येक एव सदाशिवः।
शिवरात्र युपवासेन प्राप्तो ज्ञानमनुत्तमम्। ॥९२॥
ज्ञानात् सर्वमनुप्राप्तं भूतसाम्यं निरन्तरम्।
विना शिवेन यत् किंचिन्नास्ति वस्त्वत्र न क्वचित् ॥९३॥
प्राप्तज्ञानस्तदा राजा जातो हि शिववल्लभः।
मुक्ति सायुज्यतां प्राप्तः शिवरात्रेरुपोषणात् ॥९४॥
तेन लब्ध शिवाज्जन्म पुरा यत् कथितं मया।
दाक्षायणी वियोगाच्च जटाजूटेन विस्तरात् ॥९५॥
वीरभद्रेति विख्यातो दक्षयज्ञविनाशनः।
य उत्पन्नो मस्तकाच्च शिवस्य परमात्मनः ॥९६॥
शिवरात्रिव्रतेनैव तारिता बहवः पुरा।
प्राप्ताः सिद्धिं पुरा विप्रा भरताद्याश्च देहिनः ॥९७॥
मान्धाता धुन्धुमारश्च हरिश्चन्द्रादयो नृपाः।
प्राप्ताः सिद्धिमनेनैव व्रतेन परमेण हि ॥ ९८॥
शिवरात्रिसमं नास्ति व्रतं पापक्षयावहम्।
यत् कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥९९॥
उपवासंकरिष्यन्ति जागरेण समन्वितम्।
यथोक्तशास्त्रमार्गेण तेषां मोक्षो न संशयः ॥१००॥
अश्वमेधसहस्राणि वाजपेयशतानि च।
प्राप्नोति तत् फलं सर्वं नात्र कार्या विचारणा ॥१०१॥
॥ इति श्रीस्कन्दमहापुराणे माहेश्वरखण्डे केदारखण्डे शिवरात्रिव्रतकथा समाप्तः॥