अथ चाक्षुषोपनिषद

ॐ यत्सप्तभूमिकाविद्यावेद्यानन्दकलेवरम् ।
विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥
ॐ सह नाववतु  सह नौ भुनक्तु सह वीर्यं करवावहै ।       
तेजस्वि नावधीतमस्तु मा विद्विपावहै ।
ॐ शान्ति: शान्ति: शान्ति: 
आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
मम चक्षूरोगनिवृत्तये      
जन्मान्तरितकृतपापयातयामत्वदोषपरिहारद्वारा      
अन्धत्वविनाशार्थं दूरद्दष्टिप्राप्तये 
श्रीसूर्यनारायणप्रीत्यर्थम् उदकाभिमन्त्रणप्राशनपूर्वकं
पाठं  करिष्ये ।
ॐ अथ ह साङ्कृतिर्भगवानादित्यलोकं जगाम ।
तमादित्यं नत्वा चाक्षुष्मतीविद्यया तमस्तुवत् ।
ॐ अथातश्चाक्षुषीं पठितां सिद्धां विद्यां चक्षूरोगहरां       
व्याख्यास्यामो यया चक्षूरोगा: सर्वतो नश्यन्ति चक्षुषो      
दीप्तिर्भवतीति ।
ॐ अस्याश्चाक्षुषीविद्याया अहिर्बुध्न्यऋषिर्गायत्री छन्द: 
श्रीसूर्यो देवता चक्षूरोगनिवृत्तये पाठे (जपे) विनियोग: ।
ॐ चक्षुश्च चक्षुश्च चक्षुस्तेज: स्थिरो भव । 
मां पाहि मां पाहि ।
त्वरितं चक्षूरोगानू शमय शमय । 
मम जातरूपं तेजो दर्शय दर्शय ।
यथाऽहम् अन्धो न स्यां तथा कल्पय कल्पय ।
कल्याणं कुरु कुरु । 
यानि यानि मम पूर्वजन्मोपार्जितानि 
चक्षु:-प्रतिरोधकदुष्कृतानि तानि सर्वाणि निर्मूलय निर्मूलय ।
ॐ नम: चक्षुस्तेजोदात्रे दिव्याय भास्कराय ।
ॐ नम: कल्याणकरायामृताय । 
ॐ नम: श्रीसूर्याय । 
ॐ नमो भगवते श्रीसूर्यायाक्षितेजसे नम: ।
ॐ खेचराय नम: । 
ॐ महासेनाय नम: । 
ॐ महते नम: । 
ॐ तमसे नम: । 
ॐ रजसे नम: । 
ॐ सत्त्वाय नम: । 
ॐ असतो मा सद्‌गमय  तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ।
उष्णो भगवाञ्छुचिरूप: ।
हंसो भगवाञ्छुचिरूप: ।
ॐ विश्वरूपं धृणिं जातवेदसं हिरण्मयं 
पुरुषं ज्योतीरूपं तपन्तम् सहस्ररश्मि: 
शतधा वर्तमान: पुरुष: प्रजानामुदयत्येष सूर्य: ॥ 
ॐ नमो भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहोऽवाहिनि वाहिनि स्वाहेति । एवं चाक्षुष्मतीविद्यया स्तुत: श्रीसूर्यनारायण: सुप्रीतोऽब्रवीत् । 
य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीते 
न तस्याक्षिरोगो भवित । न तस्य कुलेऽन्धो भवति । 
अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वाऽथ विद्यासिद्धिर्भवति । 
य एवं वेद स महान् भवतीति ।
ॐ वय: सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमाना: ।
अप ध्वान्तमूर्णु हि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥
ॐ पुण्डरीकाक्षाय नम: । 
ॐ पुष्करेक्षणाय नम: ।
ॐ अमलेक्षणाय नम: । 
ॐ कमलेक्षणाय नम: ।
ॐ विश्वरूपाय नम: । 
ॐ महाविष्णवे नम: ।
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।      
तेजस्वि नावधीतमस्तु । मविद्विषावहै ।
ॐ शान्ति: शान्ति: शान्ति: 
 
इति चाक्षुषोपनिषत् समाप्त

वेबदुनिया वर वाचा

संबंधित माहिती