एकश्लोकि रामायणम्‌

आदौ रामतपोवनादिगमनं हत्वा मृगं कांचनं
वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम्‌।
बालीनिग्रहणं समुद्रतरणं लंकापुरीदाहनं
पश्चाद्रावणकुंभकर्णहननमेतद्धि रामायणम्‌ ॥

॥ एकश्लोकि रामायणं संपूर्णम्‌ ॥

वेबदुनिया वर वाचा