श्रीलक्ष्मी द्वादशनाम स्तोत्रम्

मंगळवार, 25 ऑक्टोबर 2022 (00:42 IST)
ध्यानम्
कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यैः चतुर्भिगजैः
हस्तोत्क्षिप्तहिरण्मयाऽमृतघटैः आसिच्यमानां श्रियम् ।
बिभ्राणांवरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां
क्षौमाबद्धनितम्बबिम्बललितां वन्देऽरविन्दस्थिताम् ॥
त्रैलोक्यपूजितेदेवि ! कमले विष्णुवल्लभे !
यथा त्वमचला कृष्णेतथा भव मयि स्थिरा ॥
ईश्वरी कमला लक्ष्मीः चला भूतिर्हरिप्रिया ।
पद्मा पद्मालया सम्यक् उच्चैः श्रीः पद्मधारिणी ॥

वेबदुनिया वर वाचा

संबंधित माहिती