प्रदोष स्तोत्रम Pradosha Stotram

बुधवार, 6 ऑगस्ट 2025 (07:28 IST)
जय देव जगन्नाथ जय शङ्कर शाश्वत । जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ॥१॥  
जय सर्वगुणातीत जय सर्ववरप्रद ॥ जय नित्य निराधार जय विश्वम्भराव्यय ॥२॥  
जय विश्वैकवन्द्येश जय नागेन्द्रभूषण । जय गौरीपते शम्भो जय चन्द्रार्धशेखर ॥३॥  
जय कोठ्यर्कसङ्काश जयानन्तगुणाश्रय । जय भद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ॥४॥  
जय नाथ  कृपासिन्धो जय भक्तार्तिभञ्जन । जय दुस्तरसंसारसागरोत्तारण प्रभो ॥५॥  
प्रसीद मे महादेव संसारार्तस्य खिद्यतः । सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ॥६॥  
महादारिद्र्यमग्नस्य महापापहतस्य च ॥ महाशोकनिविष्टस्य महारोगातुरस्य च ॥७॥  
ऋणभारपरीतस्य दह्यमानस्य कर्मभिः ॥ ग्रहैःप्रपीड्यमानस्य प्रसीद मम शङ्कर ॥८॥  
दरिद्रः प्रार्थयेद्देवं प्रदोषे गिरिजापतिम ॥ अर्थाढ्यो वाऽथ राजा वा प्रार्थयेद्देवमीश्वरम ॥९॥  
दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः ॥ ममास्तु नित्यमानन्दः प्रसादात्तव शङ्कर ॥१०॥  
शत्रवः संक्षयं यान्तु प्रसीदन्तु मम प्रजाः ॥ नश्यन्तु दस्यवो राष्ट्रे जनाः सन्तु निरापदः ॥११॥  
दुर्भिक्षमारिसन्तापाः शमं यान्तु महीतले ॥ सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः ॥१२॥  
एवमाराधयेद्देवं पूजान्ते गिरिजापतिम ॥ ब्राह्मणान्भोजयेत पश्चाद्दक्षिणाभिश्च पूजयेत ॥१३॥ 
सर्वपापक्षयकरी सर्वरोगनिवारणी । शिवपूजा मयाऽऽख्याता सर्वाभीष्टफलप्रदा ॥१४॥ 
इति प्रदोषस्तोत्रं सम्पूर्णम ॥

वेबदुनिया वर वाचा

संबंधित माहिती