विद्यार्थ्यांनी सरस्वती देवीची पुढील नामावली पाठ करावी.
प्रथमं भारती नाम द्वितीयं च सरस्वती ।
तृतीयं शारदादेवी चतुर्थं हंसवाहिनी ।।
पंचमं जगती ख्याता षष्ठं वागीश्वरी तथा ।
सप्तमं कुमुदी प्रोक्ता अष्टमं ब्रह्मचारिणी ।।
नवमं बुद्धिदात्री च दशमं वरदायिनी ।
एकादशं चन्द्रकान्तिर्द्वादशं भुवनेश्वरी ।।
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
जिह्वाग्रे वसते नित्यं ब्रह्मरूपा सरस्वती ।।