कृतादिषु प्रजा राजन् कलाविच्छन्ति संभवम्। कलौ खलु भविष्यन्ति नारायणपरायणाः ॥
न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥
वैकुण्ठौकः पुरा भूमौ योऽयोध्यायामवातरत् । कौसल्यायाः स्तनं पातुं मातर्भूतं स एव मे ॥१॥
कौशिकस्याश्रमं यास्यन् यो दृष्ट्वा पथि दारुणाम् । ताटकां निजघानाशु मातर्भूतं स एव मे ॥२॥
यस्य पादाब्जसंस्पर्शाद् गच्छतो विपिनाध्वना । शिलाऽमलाऽभूल्ललना मातर्भूतं स एव मे ॥३॥
जनकस्य पुरं गत्वा यो बभञ्जैश्वरं धनुः । उपयेमे च वदेहीं मातर्भूतं स एव मे ॥४॥
कृतप्रतिश्रवाद्भ्रश्येत् कैकेय्यै न पिता मम । इति योऽभूदरण्यौकः मातर्भूतं स एव मे ॥६॥
चतुर्दशसमा भ्राम्यंस्तपस्वी यो वने स्थितः । लक्ष्मणेनान्वितः नित्यं मातर्भूतं स एव मे ॥७॥
रावणं सकुलं हत्वा योऽभ्यरक्षद्विभीषणम् । अमूमुचत् सुरान् बन्धात् मातर्भूतं स एव मे ॥९॥
आदाय यश्च वामाङ्गीं च्चाल सरयूतटम् । सङ्गतो भरतेनाभून्मातर्भूतं स एव मे ॥१०॥