संपूर्ण देवी कवचे

शुक्रवार, 4 ऑक्टोबर 2024 (11:29 IST)
देवी कवच
ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ॠषिः,अनुष्टुप् छन्दः ,
चामुन्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्,
श्रीजगदम्बाप्रातीर्थे सप्तश्तीपाठाङ्गत्वेन जपे विनियोगः ।
ॐ नमश्र्चण्डिकायै ॥
मार्कण्डेय उवाच ।
ॐ यद्‌गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥
ब्रम्होवाच ।
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृनुष्व महामुने ॥ २ ॥
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी  ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्  ॥ ३ ॥
पञ्चमं  स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ ४ ॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि  नामानि ब्रह्मणैव महात्मना ॥ ५ ॥
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६ ॥
न तेषां जायते  किंचिदशुभं रणसंकटे ।
नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७ ॥
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि रक्षसे तन्न संशयः ॥ ८ ॥
प्रेतसंस्था तु चामुन्डा वाराही महिषासना ।
ऐन्द्री  गजासमारुढा वैष्णवी  गरुडासना ॥ ९ ॥
माहेश्वरी वृषारुढा कौमारी शिखिवाहना ।
लक्ष्मीः पद्मासना देवी पद्महस्ता  हरिप्रिया ॥ १० ॥
श्र्वेतरुपधरा देवी  ईश्र्वरी वृषवाहना ।
ब्राह्मी हंससमारुढा सर्वाभरणभूषिता ॥ ११ ॥
इत्येता  मतरः सर्वाः सर्वयोगसमन्विताः ।
नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥ १२ ॥
दृश्यन्ते  रथमारुढा देव्यः  क्रोधसमाकुलाः ।
शङ्खं चक्रं गदां  शक्तिं हलं च मुसलायुधम् ॥ १३ ॥
खेटकं तोमरं चैव परशुं पाशमेव च ।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४ ॥
दैत्यानां देहनाशाय भक्तानामभयाय च ।
धरयन्त्यायुधानीत्थं देवानां च हिताय  वै ॥ १५ ॥
नमस्तेऽस्तु  महारौद्रे महाघोरपराक्रमे ।
महाबले महोत्साहे महाभ्यविनाशिनि ॥ १६ ॥
त्राहि  मां देवि  दुष्प्रेक्ष्ये  शत्रूणां  भयवर्धिनि ।
प्राच्यां रक्षतु मामैन्द्री  आग्नेय्यामग्निदेवता ॥ १७ ॥
दक्षिणेऽवतु  वाराही  नैॠत्यां  खद्‌गधारिणी ।
प्रतीच्यां वारुणी रक्षेद् वायाव्यां मृगावाहिनी ॥ १८ ॥
उदीच्यां पातु कौबेरी ऐशान्यां  शूलधारिणी ।
ऊर्ध्वं  ब्रह्माणी मे रक्षेदधस्ताद् वैष्णवी तथा ॥ १९ ॥
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ २० ॥
अजिता वामपार्श्वे तु द्क्षिणे  चापराजिता ।
शिखामुद्‌द्योतिनि रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ २१ ॥
मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी ।
त्रिनेत्रा च भ्रुवोर्मध्ये  यमघण्टा च नासिके ॥ २२ ॥
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
कपौलौ  कालिका रक्षेत्कर्णमूले  तु शांकरी ॥ २३ ॥
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृतकला  जिह्वायां च सरस्वती ॥ २४ ॥
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया  च तालुके  ॥ २५ ॥
कामाक्षी चिबुकं रक्षेद् वाचं  मे सर्वमङ्गला ।
ग्रीवायां  भद्रकाली  च पृष्ठवंशे धनुर्धरी ॥ २६ ॥
नीलग्रीवा बहिःकण्ठे  नलिकां नलकूबरी ।
स्कन्धयो: खङ्‍गिनी  रक्षेद्  बाहू मे वज्रधारिणी ॥ २७ ॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्छूलेश्र्वरी रक्षेत्कक्षौ रक्षेत्कुलेश्र्वरी ॥ २८ ॥
स्तनौ रक्षेन्महादेवी  मनः शोकविनाशिनी ।
हृदये ललिता देवी उदरे  शूलधारिणी ॥ २९ ॥
नाभौ च कामिनी रक्षेद् गुह्यं  गुह्येश्र्वरी तथा ।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी  ॥ ३० ॥
कट्यां भगवती  रक्षेज्जानुनी  विन्ध्यवासिनी ।
जङेघ  महाबला रक्षेत्सर्वकामप्रदायिनी  ॥ ३१ ॥
गुल्फयोर्नारसिंही च पादपृष्टे तु तैजसी ।
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ ३२ ॥
नखान् दंष्ट्राकराली च केशांश्र्चैवोर्ध्वकेशिनी ।
रोमकूपेषु  कौबेरी त्वचं वागीश्र्वरी  तथा ॥ ३३ ॥
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अन्त्राणि  कालरात्रिश्र्च पित्तं  च मुकुटेश्र्वरी ॥ ३४ ॥
पद्मावती  पद्मकोशे कफे चूडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु ॥ ३५ ॥
शुक्रं ब्रम्हाणी  मे  रक्षेच्छायां छत्रेश्र्वरी  तथा ।
अहंकारं मनो बुध्दिं रक्षेन्मे धर्मधारिणी ॥ ३६ ॥
प्रणापानौ तथा व्याअनमुदानं  च समानकम् ।
वज्रहस्ता च मे  रक्षेत्प्राणं कल्याणशोभना ॥ ३७ ॥
रसे  रुपे च गन्धे च  शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्र्चैव रक्षेन्नारायणी सदा ॥ ३८ ॥
आयू रक्षतु वाराही धर्मं रक्षतु  वैष्णवी ।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९ ॥
गोत्रामिन्द्राणी  मे रक्षेत्पशून्मे रक्ष चण्डिके ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४० ॥ 
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१ ॥
रक्षाहीनं तु यत्स्थानं वर्जितं  कवचेन तु ।
तत्सर्वं रक्ष मे देवि जयन्ती  पापनाशिनी ॥ ४२ ॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
कवचेनावृतो नित्यं यत्र  यत्रैव गच्छति ॥ ४३ ॥
तत्र तत्रार्थलाभश्र्च विजयः  सार्वकामिकः ।
यं यं चिन्तयते कामं तं  तं प्राप्नोति निश्र्चितम् ।
परमैश्र्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४४ ॥
निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ।
त्रैलोक्ये तु  भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४५ ॥
इदं तु देव्याः  कवचं  देवानामपि  दुर्लभम्  ।
यं  पठेत्प्रायतो  नित्यं त्रिसन्ध्यम श्रद्धयान्वितः ॥ ४६ ॥
दैवी कला  भवेत्तस्य  त्रैलोक्येष्वप्राजितः ।
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः । ४७ ॥
नश्यन्ति व्याधयः सर्वे  लूताविस्फ़ोटकादयः ।
स्थावरं जङ्गमं  चैव  कृत्रिमं  चापि यद्विषम् ॥ ४८ ॥
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भुतले ।
भूचराः खेचराश्र्चेव जलजाश्र्चोपदेशिकाः ॥ ४९ ॥
सहजाः  कुलजा माला डाकिनी शाकिनी तथा ।
अन्तरिक्षचरा  घोरा डाकिन्यश्र्च महाबलाः ॥ ५० ॥
ग्रहभूतपिशाचाश्च्च  यक्षगन्धर्वराक्षसाः ।
ब्रम्हराक्षसवेतालाः कूष्माण्डा भैरवादयः  ॥ ५१ ॥
नश्यति  दर्शनात्तस्य कवचे हृदि संस्थिते ।
मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् ॥ ५२ ॥
यशसा  वर्धते  सोऽपि  कीर्तिमण्डितभूतले ।
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं  पुरा ॥ ५३ ॥
यावभ्दूमण्डलं धत्ते सशैलवनकाननम् ।
तावत्तिष्ठति मेदिन्यां  संततिः पुत्रापौत्रिकी ॥ ५४ ॥
देहान्ते  परमं स्थानं यत्सुरैरपि  दुर्लभम् ।
प्राप्नोति  पुरुषो नित्यं महामायाप्रसादतः ॥ ५५ ॥
लभते परम्म  रुपं शिवेन सह मोदते ॥ ५६ ॥
॥ इति देव्याः कवचं सम्पूर्णम् ॥

अथार्गलास्तोत्रम्

॥ अथार्गलास्तोत्रम् ॥
ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुऋषिः , अनुष्टुप् छन्दः
श्रीमहालक्ष्मीर्देवता ,श्रीजगदम्बप्रीतये सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।
 ॐ नमश्र्चण्डिकायै ॥
 मार्कन्डेय उवाच /
ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ १ ॥
जय त्वं देवि चामुण्डे जय भूतार्तिहारिणि ।
जय सार्वगते देवि कालरात्रि नमोऽस्तु ते ॥ २ ॥
मधुकैटभविद्राविविधातृवरदे नमः ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ३ ॥
महिषासुरनिर्णाशि भक्तानां सुखदे नमः ।
रुपं देहि जयं देहि यशो देहि द्विषो जाहि ॥ ४ ॥
रक्तबीजवधे देवि चण्डमुण्दविनाशिनि ।
रुपं देहि जयं देहि यशो देहि द्विषो जाहि ॥ ५ ॥
शुम्भस्यैव निशुम्भस्य धूम्राक्षस्य च मर्दिनि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ६ ॥
वन्दिताङ्‌घ्रियुगे देवि सर्वसौभाग्यदायिनि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ७ ॥
अचिन्त्यरुपचरिते सर्वशत्रुविनाशिनि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ८ ॥
नतेभ्यः सर्वदा भक्त्या चण्डिके दुरतापहे ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ९ ॥
स्तुवद्‌भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १० ॥
चण्डिके सततं ये त्वामर्चयन्तीह भक्तितः ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ११ ॥
देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १२ ॥
विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १३ ॥
विधेहि देवि कल्याणं विधेहि परमां श्रियम् ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १४ ॥
सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १५ ॥
विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १६ ॥
प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणतय मे ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १७ ॥
चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्र्वरि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १८ ॥
कृष्णेन संस्तुते देवि शश्र्वभ्दक्त्या सदाम्बिके ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १९ ॥
हिमाचलसुतानाथसंस्तुते परमेश्र्वरि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २० ॥
इन्द्राणीपतिसद्भावपूजिते परमेश्र्वरि ।
रुपं देहि जयं देहि यशो देहि द्विषो जाहि ॥ २१ ॥
देवि प्रचण्डदोर्दण्डदैत्यदर्पविनाशिनि ।
रुपं देहि जयं देहि यशो देहि द्विषो जाहि ॥ २२ ॥
देवि भक्ताजनोद्दामदत्तानन्दोदयेऽम्बिके ।
रुपं देहि जयं देहि यशो देहि द्विषो जाहि ॥ २३ ॥
पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् ।
तारिणीं दुर्गसंसारसागरस्य कुलोभ्दवाम् ॥ २४ ॥
इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः
स तु सप्तशतीसंख्यावरमाप्नोति सम्पदाम् ॥ २५ ॥

कीलकम्
अथ कीलकम्
ॐ अस्य श्रीकीलकमन्नस्य शिव ॠषिः अनुष्टुप् छन्दः श्रीमहासरस्वती
देवता ,श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।
ॐ नमश्र्चण्डिकायै ॥
मार्कण्डेय उवाच
ॐ विशुध्दज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ १ ॥
सर्वमेतद्विना यस्तु मन्त्राणामभिकीलकम् ।
सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः ॥ २ ॥
सिद्ध्यन्तुच्चाटनादीनि वस्तूनि सकलान्यापि ।
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिध्यति ॥ ३ ॥
न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते ।
विना जाप्येन सिध्येत सर्वमुच्चातनादिकम् ॥ ४ ॥
समग्राण्यपि सिध्यन्ति लोकशङ्कामिमां हरः ।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥ ५ ॥
समाप्नोति सुपुण्येन तां यथावन्नियन्त्रणाम् ।
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः ॥ ६ ॥
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ।
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ॥ ७ ॥
इत्थंरुपेण कीलेन महादेवेन कीलितम् ।
निष्कीलां च तत: क्रुत्वा पठितव्यं समाहितैः ॥ ८ ॥
यो निष्कीलां विधायैनां नित्यं जपाति संस्फुतम् ।
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः ॥ ९ ॥
न चैवाप्यटतस्तस्य भयं क्वापिह जायते ।
नापमृत्युवशं याति मृतो मोक्षमवान्पुयात् ॥ १० ॥
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पन्नमिदं प्ररभ्यते बुधैः ॥ ११ ॥
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम् ॥ १२ ॥
श्नैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः ।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥ १३ ॥
ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः ।
शत्रुहानिःपरो मोक्षः स्तुयते सा न किं जनैः ॥ १४ ॥

रात्रिसूक्तम्
अथ तन्त्रोक्तं रत्रिसूक्त्म्
ॐ विश्र्वेश्र्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १ ॥
ब्रह्मोवाच
त्वं स्वाहा त्वं स्वधा त्वं हि वशट्‌कारः स्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥ २ ॥
अर्ध्मात्रास्थिता नित्याअ यानुच्चार्‍या विशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ॥ ३ ॥
विसृष्टौ सृष्टिरुपा त्वं स्थितिरुपा च पालने ।
तथा संहृतिरुपान्ते जगतोऽस्य जगन्मये ॥ ५ ॥
महाविद्या महामाया महामेधा महास्मृतिः ।
महामोहा च भवती महादेवी महासुरी ॥ ६ ॥
प्रकृतीस्त्वं च सर्वस्य गुणत्रयविभाविनी ।
कालरात्रैर्महारात्रिर्मोहरात्रिश्र्च दारूणा ॥ ७ ॥
त्वं श्रीस्त्वमीश्र्वरि त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ॥ ८ ॥
खड्‌गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ॥ ९ ॥
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ।
परापराणां परमा त्वमेव परमेश्र्वरी ॥ १० ॥
यच्च किञ्चि‍त् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा ॥ ११ ॥
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्र्वरः ॥ १२ ॥
विष्णुः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ १३ ॥
सा त्वमित्थं प्रभावऐः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥ १४ ॥
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ।
बोधश्र्च क्रियतामस्य मन्तुमेतौ महासुरौ ॥ १५ ॥

श्रीसप्तश्लोकी
अथ सप्तश्लोकी दुर्गा
शिव उवाच
देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी ।
कलौ कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥
देव्युवाच
श्रृणु देव प्रवक्ष्यामि कलौ सर्वेष्ट्साधनम् ।
मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥
ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ॠषिः , अनुष्टुप
छन्दः, श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यो देवताः ,श्री दुर्गाप्रीत्यथं
 सप्तश्लोकी दुर्गापाठे विनियोगः ।
ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ १ ॥
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥ २ ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंम्बके गौरि नारायणि नमोऽस्तु ते ॥ ३ ॥
शरणागतदीनार्तपरित्राणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ४ ॥
सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ ५ ॥
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्र्यन्ति ॥ ६ ॥
सर्वबाधाप्रश्मनं त्रैलोक्यस्याखिलेश्र्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ ७ ॥
 ॥ इति श्रीसप्तश्लोकी दुर्गा सम्पूर्णा ॥

तन्त्रोक्तं देवीसूक्तम्
अथ तन्त्रोक्तं देवीसूक्तम्
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताह स्मताम ॥ १ ॥
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।
ज्योत्स्नायै चेन्दुरुपिण्यै सुखायै सततं नमः ॥ २ ॥
कल्याण्यै प्रणतां वृध्द्यैसिद्ध्यै कूर्म्यै नमो नमः ।
नैॠत्यै भूभृतां लक्ष्म्यै श्र्वाण्यै ते नमो नमः ॥ ३ ॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ ४ ॥
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ ५ ॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ६ ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ७ ॥
या देवी सर्वभूतेषु बुद्धिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८ ॥
या देवी सर्वभूतेषु निद्रारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ९ ॥
या देवी सर्वभूतेषु क्षुधारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १० ॥
या देवी सर्वभूतेषु छायारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः s॥ ११ ॥
या देवी सर्वभूतेषु शक्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १२ ॥
या देवी सर्वभूतेषु तृष्णारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १३ ॥
या देवी सर्वभूतेषु क्षान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १४ ॥
या देवी सर्वभूतेषु जातिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १५ ॥
या देवी सर्वभूतेषु लज्जारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १६ ॥
या देवी सर्वभूतेषु शान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १७ ॥
या देवी सर्वभूतेषु श्रद्धारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १८ ॥
या देवी सर्वभूतेषुका कान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १९ ॥
या देवी सर्वभूतेषु लक्ष्मीरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २० ॥
या देवी सर्वभूतेषु वृत्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २१ ॥
या देवी सर्वभूतेषु स्मृतिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २२ ॥
या देवी सर्वभूतेषु दयारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २३ ॥
या देवी सर्वभूतेषु तुष्टिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २४ ॥
या देवी सर्वभूतेषु मातृरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २५ ॥
या देवी सर्वभूतेषु भ्रान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्त्स्यै नमस्तस्यै नमो नमः ॥ २६ ॥
इन्द्रियाणामधिष्ठात्री भूतानां चखिलेषु या ।
भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥ २७ ॥
चितिरुपेण या क्रुत्स्नमेतद्‌व्याप्य स्थिता जगत्
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २८ ॥
स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरिश्र्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥ २९ ॥
या साम्प्रतं चोद्ध्तदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते ।
या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः॥ ३० ॥
॥ इति तन्त्रोक्तं देवीसूक्तं सम्पूर्णम् ॥

सिद्धकुज्जिकास्तोत्रम्
शिव उवाच
शृणु देवि प्रवक्ष्यामि कुज्जिकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १ ॥
न कवचं नार्गालास्तोत्रं कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चमान् ॥ २ ॥
कुज्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
अतिगुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३ ॥
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
मारणं मोहनं वश्यं स्तम्भ्नोच्चाटनादिकम् ।
पाठणमात्रेण संसिध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४ ॥
 
मन्त्र
ॐ ऐं ह्रीं क्लीं चामुण्डायैविच्चे ॥ ॐ ग्लौं हुं क्लीं जूं सः
ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ इतिमन्त्रः ॥
नमस्ते रुद्ररुपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ १ ॥
नमस्ते शुम्भ्रहन्त्र्यै च निशुम्भासुरघातिनि ॥ २ ॥
जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे ।
ऐंकारी सॄष्टिरुपायै ह्रिंकारी प्रतिपालिका ॥ ३ ॥
क्लींकारी कामरुपिण्यै बीजरुपे नमोऽस्तु ते ।
चामुण्डा चण्ड्घाती च यैकारी वरदायिनी ॥ ४ ॥
विच्चे चाभयादा नित्यं नमस्ते मन्त्ररुपिणि ॥ ५ ॥
धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्र्वरी ।
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ॥ ६ ॥
हुं हुं हुंकाररुपिण्यै जं जं जं जम्भनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ७ ॥
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं
धीजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥
पां पीं पूं पार्वती पर्णा खां खीं खूं खेचरी तथा ।
सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे ॥ ८ ॥
इदं तु कुञ्जकास्तोत्रं मन्त्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥
यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।
न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥
इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।

दुर्गाद्वात्रिंशन्नाममाला
दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी ।
दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी ||
दुर्गतोद्धारिणी दुर्गानिहन्त्री दुर्गमापहा ।
दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला ॥
दुर्गमा दुर्गमालोका दुर्गमात्मस्वरुपिणी ।
दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता ॥
दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी ।
दुर्गमोहा दुर्गमगा दुर्गमार्थंस्वरुपिणी ॥
दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी ।
दुर्गमाङ्गी दुर्गमता दुर्गम्या दुर्गमेश्र्वरी ॥
दुर्गभीमा दुर्गभामा दुर्गभा दुर्गदारिणी ।
नामावलिमिमां यस्तु दुर्गाया मम मानवः ॥
पठेत् सर्वभयान्मुक्तो भविष्यति न संशयः ॥
॥ इति दुर्गाद्वात्रिंशन्नाममाला संपूर्णा ॥

देव्यपराधक्षमापनस्तोत्रम्
अथ देव्यपराधक्षमापनस्तोत्रम्
न मन्त्रं नो यन्त्रं तदापि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदापि च न जाने स्तुतिकथाः ।
न जाने मुद्रास्ते तदापि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ १ ॥
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाश्क्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २ ॥
पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायते क्वचिदपि कुमाता न भवति ॥ ३॥
जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४ ॥
परित्यक्ता देवा विविधविधसेवाकुलतया
 मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ५ ॥
श्र्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनःको जानीते जनानि जपनीयं जपविधौ ॥ ६ ॥
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ ७ ॥
न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ ८ ॥
नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
श्यामे त्वव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥ ९ ॥
आपस्तु मग्नः स्मराणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति ॥ १० ॥
जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परापरं न हि माता समुपेक्षते सुतम् ॥ ११ ॥
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥ १२ ॥
॥ इति श्रीशंकराचार्यविरचितं देव्यपराधक्षमापनस्तोत्रं सम्पूर्णम् ॥

कर्मसमर्पणम्
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्र्वरि ॥
मन्त्रहीनं क्रियाहिनं भक्तिहीनं सुरेश्र्वरि ।
यत्कृतं तु मया कर्मं परिपूर्णं तदस्तु मे ॥
//इति प्रार्थना //
अनेन कृतकर्माणा भगवति श्रीमहाकाली-महालक्ष्मी-महासरस्वतीस्वरुपिणी श्रीजगद्म्बा प्रीयताम् ।
तत्सद्‌ब्र्ह्मार्पणमस्तु ॥

श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम्
ईश्र्वर उवाच
शतनाम प्रवक्ष्यामि शृणुष्व कमलानने ।
यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ॥ १ ॥
ॐ सती साध्वी भवप्रीता भवानी भवमोचनी ।
आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी ॥ २ ॥
पिनाकधारिणी चित्रा चण्डघण्टा महातपाः ।
मनो बुद्धिर्हंकारा चित्तरुपा चिता चितिः ॥ ३ ॥
सर्वमन्त्रमयी सत्ता सत्यानन्दस्वरुपिणी ।
अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः॥ ४ ॥
शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा ।
सर्वविद्या दक्षकन्या द्क्षयज्ञविनाशिनी ॥ ५ ॥
अपर्णानेकवर्णा च पाटला पाटलावती ।
पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी ॥ ६ ॥
अमेयविक्रमा क्रूरा सुन्दरी सरसुन्दरी ।
वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता ॥ ७ ॥
ब्राह्मी माहेश्र्वरी चैन्द्री कौमारी वैष्णवी तथा ।
चामुण्डा चैव वाराही लक्ष्मीश्र्च पुरुषाकृतिः ॥ ८ ॥
विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुध्दिदा ।
बहुला बहुलप्रेमा सर्ववाहनवाहना ॥ ९ ॥
 निशुम्भशुम्भहननी महिषासुरमर्दिनी ।
मधुकैटभहन्त्री चण्डमुण्डविनाशिनी ॥ १० ॥
सर्वासुरविनाशा च सर्वदानवघातिनी ।
सर्वशास्त्रमयी च सर्वास्त्रधारिणी तथा ॥ ११ ॥
अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी ।
कुमारी चैककन्या च कैशोरी युवति यतिः ॥ १२ ॥
अप्रोढा चैव प्रौढा च वृद्धमाता बलप्रदा ।
महोदरी मुक्तकेशी घोररुपा महाबला ॥ १३ ॥
अग्निज्वाला रौद्रमुखी कालरित्रिस्तपस्विनी ।
नारायणी भद्रकाली विष्णुमाया जलोदरी ॥ १४ ॥
शिवदूती कराली च अनन्ता परमेश्र्वरी ।
कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी ॥ १५ ॥
य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् ।
नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति ॥ १६ ॥
धनं धान्यं सुतं जायां हयं हस्तिनमेव च ।
चतुर्वंर्गं तथा चान्ते लभेन्मुक्तिं च शाश्र्वतीम्॥ १७ ॥
कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्र्वरीम् ।
पूजयेत् परया भक्त्या पठेन्नामशताष्टकम् ॥ १८ ॥
तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि ।
राजानो दासातां यान्ति राज्यश्रियमवाप्रुयात्॥ १९ ॥
गोरोचनाअलक्तककुङ्कुमेन
सिन्दूरकर्पूरामधुत्रयेण ।
विलिख्य यन्त्र विधिना विधिज्ञो
भवेत् सदा धारयते पुरारिः ॥ २० ॥
भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते ।
विलिख्य प्रपठेत् स्तोत्रं स भवेत्‌ सम्पदां पदम् ॥ २१ ॥
इति श्रीविश्र्वसारतन्त्रे दुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् ।

अन्नपूर्णास्तोत्रम्
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्र्वरी ।
प्रालेयलवंशपावनकरी काशीपुराधीश्र्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी ॥ १ ॥
नानरत्नविचित्रभूषणकरी हेमाम्बराडम्बरि
मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी ।
काश्मीरागरुवासिङ्गरुचिरा काशीपुधीश्र्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपुर्णेश्र्वरी ॥ २ ॥
योगानन्दकरि रिपुक्षयकरि धर्मार्थनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।
सर्वैश्र्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्र्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी ॥ ३ ॥
कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी
कौमारी निगमार्थगोचरकरी ओंकारबीजाक्षरी ।
मोक्षद्वारकपाटपाटनकरि काशीपुराधीश्र्वरि
भिक्षां देहि कृपावल्म्बनकरी मातान्नपूर्णेश्र्वरी ॥ ४ ॥
दृश्यादृश्यविभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी ।
श्रीविश्वेशमनः प्रसादनकरी काशीपुराधीश्र्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी ॥ ५ ॥
उर्वी सर्वजनेश्वरी भगवती मातान्नपूर्णेश्वरी
वेणीनीलसमानकुरी नित्यान्नदानेश्र्वरी ।
सर्वानन्दकरी सदा शुभकरी काशीपुराधीश्र्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ६ ॥
आदिक्षान्तसमस्तवर्णनकरी शम्भ्रोस्त्रिभावाकरी
काश्मिरा त्रिजलेश्र्वरी त्रिलहरी नित्याङ्करा शर्वरी ।
कामाकाङ्क्षकरी जनोदयकरी काशिपुराधीश्वरी
भिक्षां देहि क्रुपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ७ ॥
देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी
वामस्वादुपयोधरप्रियकरी सौभाग्यमाहेश्र्वरी ।
भक्ताभीष्टकरी दशाशुभहरी काशिपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ८ ॥
चन्द्रार्कानलकोटीकोटिसदृशा चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकुन्तलधरी चन्द्रार्कवर्णेश्वरी
मालापुस्तकपाशसाड्कुशधरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी ॥ ९ ॥
क्षत्रत्राणकरी महाऽभवकरी माता कृपासागरि
साक्षान्मोक्षकरी सदा शिवकरी विश्वेश्वरश्रीधरी
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
भिक्षाम देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ १० ॥
अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥ ११ ॥
माता च पार्वती देवी पिता देवो महेश्वरः ।
बान्धवाः शिवभक्ताश्र्च स्वदेशो भुवनत्रयम् ॥ १२ ॥
॥ इति श्रीमत्परमहंपर्रिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ अन्नपूर्णास्तोत्रं सम्पूर्णम् ॥

ऋग्वेदोक्तं देवीसूक्तम्
 ऋग्वेदोक्तं देवीसूक्तम्
ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः , सच्चित्सौखात्मकः सर्वगतः परमात्मा देवता , द्वितीयाया ॠचो जगती , शिष्टानां त्रिष्टुप् छन्दः , देवीमाहात्म्यपाठे विनियोगः ।
 ध्यानम्
ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्र्चतुर्भिर्भुजैः
शङ्खं चक्रध्नुःशरांश्र्च दधती नेत्रैस्त्रिभिः शोभिता ।
आमुक्ताङ्गदहारकङकणरणत्काञ्चीरणन्नूपुरा
दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला ॥
 देवीसूक्तम्
ॐ अहं रुद्रेभिर्वसुभिश्र्चराम्यहमादित्यैरुत विश्र्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्र्विनोभा ॥ १ ॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ २ ॥
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्य्यावेशयन्तीम् ॥ ३ ॥
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् ।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ ४ ॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५ ॥
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे श्रवे हन्तवा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥ ६ ॥
अहं सुवे पितरमस्य मूर्ध्न्मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानु विश्र्वो-तामूं द्यां वर्ष्मणोप स्पृशामि ॥ ७ ॥
अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्र्वा ।
प्रो दिवा पर एना पृथिव्यैतावती महिना संबभूव ॥ ८ ॥

प्राधानिकं रहस्यम्
ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्य नरायणा ऋषि:अनुष्टुप्छन्दः ,
महाकालीमहालक्ष्मीमहासरस्वत्यो देवता यथोक्तफलावाप्त्यर्थं
जपे विनियोगः ।
 राजोवाच
भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः ।
एतेषां प्रकृतिम ब्रह्मन् प्रधानं वक्तुमर्हसि ॥ १ ॥
आराध्यं यन्मया देव्याः स्वरुपं येन च द्विज ।
विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे ॥ २ ॥
 ऋषिरुवाच
इदं रहस्यं परममनाख्येयं प्रचक्षते ।
भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप ॥ ३ ॥
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्र्वरी ।
लक्ष्यालक्ष्यस्वरुपा सा व्याप्त कृत्स्नं व्यवस्थिता ॥ ४ ॥
माअतुलुङ्ग गदां खेटं पानपात्रं च बिभ्रती ।
नागं लिङ्गं च योनिं च बिभ्रती नृप मूर्धनि ॥ ५ ॥
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा ।
शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥ ६ ॥
शून्यं तदखिलं लोकं विलोक्य परमेश्र्वरी ।
बभार परमं रुपं तमसा केवलेन हि ॥ ७ ॥
सा भिन्नाञ्जनसंकाशा दंष्ट्राङ्कतवरानना ।
विशाललोचना नारी बभूव तनुमध्यमा ॥ ८ ॥
खङ्गपात्राशिरःखेटैरलंकृतचतुर्भुजा
कबन्ध्हारं शिरसा बिभ्राणा हि शिरःस्त्रजम् ॥ ९ ॥
सा प्रोवाच महालक्ष्मीं तामसी प्रम्दोत्तमा ।
नाम कर्म च मे मातर्देहि तुभ्यं नमो नमः ॥ १० ॥
तां प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम् ।
ददामि तव नामानि यानि कर्माणि तानि ते ॥ ११ ॥
महामाया महाकाली महामारी क्षुधा तृषा ।
निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ॥ १२ ॥
इमानि तव नामानि प्रतिपाद्यानि कर्मभिः ।
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्र्नुते सुखम् ॥ १३ ॥
अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी ।
सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ १५ ॥
तामित्युक्त्व महालक्ष्मीः स्वरुपमपरं नृप ।
सत्त्वाख्येनातिशुद्धेन गुणेनेन्दुप्रभं दधौ ॥ १४ ॥
अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी ।
सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ १५ ॥
महाविद्या महावाणी भारती वाक् सरस्वती ।
आर्या ब्राम्ही कामधेनुर्वेदगर्भा च धीश्र्वरी ॥ १६ ॥
अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् ।
युवां जनयतां देव्यौ मिथुने स्वानुरुपतः ॥ १७ ॥
इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम् ।
हिरण्यगर्भो रुचिरौ स्त्रीपुंसौ कमलासनौ ॥ १८ ॥
ब्रह्मन्‌ विधे विरित्र्चेति धातरित्याह तं नरम्‌।
श्री: पद्मे कमले लक्ष्मीत्याह माता च तां स्त्रियम्‌॥१९॥
महाकाली भारती च मिथुने सृजतः सह ।
एतयोरपि रुपाणि नामानि च वदामि ते ॥ २० ॥
नीलकण्ठं रक्तबाहुं श्वेताड्गं चन्द्रशेखरम्‌।
जनयामास पुरुषं महाकाली सितां स्त्रियम् ॥ २१ ॥
स रुद्रः शंकरः स्थाणुः कपर्दी च त्रिलोचनः ।
त्रयी विद्या क्स्स्मधेनुः सा स्त्री भाषाक्षरा स्वरा ॥ २२ ॥
सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप ।
जनयामास नामानि तयोरपि वदामि ते ॥ २३ ॥
विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः ।
उमा गौरी सतीचण्डी सुन्दरी सुभगा शिवा ॥ २४ ॥
एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे ।
चक्षुष्मन्तो नु पश्यन्ति नेतरेऽतद्विदो जनाः ॥ २५ ॥
ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीनृप त्रयीम् ।
रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् ॥ २६ ॥
स्वरया सह सम्भूय विरिञ्चोऽण्डमजीजनत् ।
बिभेद भगवान् रुद्रस्तद् गौर्या सह वीर्यवान् ॥ २७ ॥
अण्डमध्ये प्रधानादि कार्यजातमभून्नृप ।
महाभूतात्मकं सर्वं जगतस्थावरजड्ग्मम् ॥ २८ ॥
पुपोष पालयामास तल्लक्ष्म्या सह केशवः ।
संजहार जगत्सर्वं सह गौर्या महेश्वरः ॥ २९ ॥
महालक्ष्मीर्महाराज सर्वसत्त्वमयीश्र्वरी ।
निराकारा च साकारा सैव नानाभिधानभृत् ॥ ३० ॥
नामान्तरैर्निरुप्यैषा नाम्ना नान्येन केनचित् ॥ ॐ ॥ ३१ ॥
 इति प्राधानिकं रहस्यं सम्पूर्णम् ।

वैकृतिकं रहस्यम्
अथ वैकृतिकं रहस्यम्
 ऋषिरुवाच
ॐ त्रिगुणा तामसी देवि सात्त्विकी या त्रिधोदिता ।
सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते ॥ १ ॥
योगन्रिदा हरेरुक्ता महाकाली तमोगोणा ।
मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः ॥ २ ॥
दशवक्त्रा दशभुजा दश्पादाञ्जनप्रभा ।
विशालया राजमाना त्रिंशल्लोचनमालया ॥ ३ ॥
स्फुरद्दशनदंष्ट्रा सा भीमरुपापि भूमिप ।
रुपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियः ॥ ४ ॥
खड्गबाणगदाशूलचक्रशङ्खभुशुण्डिभृत् ।
परिघं कार्मुकं शीर्षं निश्च्योतद्रुधिरं दधौ ॥ ५ ॥
एषा सा वैष्णवी माया महाकाली दुरत्यया ।
आराधिता वशीकुर्यात् पूजाकर्तुश्र्चराचरम ॥ ६ ॥
सर्वदेवशरीरेभ्यो याऽऽविर्भूतामितप्रभा ।
त्रिगुणा सा महालक्ष्मीः साक्षान्महिषमर्दिनी ॥ ७ ॥
श्र्वेतानना नीलभुजा सुश्वेतस्तनमण्डला ।
रक्तमध्या रक्तपादा नीलजङ्घोरुरुन्मदा ॥ ८ ॥
सुचित्रजघना चित्रमाल्याम्बरविभूषणा ।
चित्रानुलेपना कान्तिरुपसौभाग्यशालिनी ॥ ९ ॥
अष्टदशभुजा पूज्या सा सहस्त्रभुजा सती ।
आयुधान्यत्र वक्षन्ते दक्षिणाधःकरक्रमात् ॥ १० ॥
अक्षमाला च कमलं बाणोऽसिः कुलिशं गदा ।
चक्रं त्रिशूलं परशुः शङ्खो घण्टा च पाशकः ॥ ११ ॥
शक्तिर्दण्डश्र्चर्म चापं पानपात्रं कमण्डलुः ।
अलंकृतभुजामेभिरायुध: क मलासनाम् ॥ १२ ॥
सर्वदेवमयीमीशां महालक्ष्मीमिमां नृप ।
पूजयेत्सर्वलोकानां स देवानां प्रभुर्भुवेत् ॥ १३ ॥
गौरीदेहात्समुद्भूता या सत्त्वैकगुणाश्रया ।
साक्षात्सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी ॥ १४ ॥
दधौ चाष्टभुजा बाणमुसले शूलचक्रभृत् ।
शङ्खं घण्ता लाङ्गलं कार्मुकं चसुधाधिप ॥ १५ ॥
एषा सम्पुजिता भक्तया सर्वज्ञत्वं प्रयच्छति ।
निशुम्भमथिनी देवी शुम्भासुरनिबर्हिणी ॥ १६ ॥
इत्युक्तानि स्वरुपाणि मूर्तीनां ताव पार्थिव ।
उपासनं जगन्मातुः पृथागासां निशामय ॥ १७ ॥
महालक्ष्मीर्यादा पुज्या महाकाली सरस्वती ।
दक्षिणोत्तरयोः पुज्ये पृष्ठतो मिथुनत्रयम् ॥ १८ ॥
विरञ्चिः स्वरया मध्ये रुद्रो गौर्या च दक्षिणे ।
वामे लक्ष्या ह्र्षीकेशः पुरतो देवतात्रयम् ॥ १९ ॥
अष्टादशभुजा मध्ये वामे चास्यादशानना ।
दक्षिणेऽष्टभुजा लक्ष्मीर्महतीति समर्चयेत् ॥ २० ॥
अष्टादशभुजा चैषा यदा पूज्या नराधिप ।
यदा चाष्टभुजा पू ज्या शुम्भासुरनिबर्हिणी ॥ २२ ॥
नवास्याः शक्तयह पूज्यास्तदा रुद्रविनायकौ ।
नमो देव्या इति स्तोत्रमन्त्रास्तदाश्रयाः ॥ २३ ॥
अवतारत्रयार्चायां स्तोत्रमन्त्रास्तदाश्रया:।
अष्टादशभुजा चैषा पूज्या महिषमर्दिनी ॥ २४ ॥
महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती ।
ईश्र्वरी पुण्यपापानां सर्वलोकमहेश्र्वरी ॥ २५ ॥
महिषान्तकरी येन पुजिता स जगत्प्रभुः ।
पूजयेज्जगतां धात्रीं चण्डिकां भक्तवत्सलाम् ॥ २६ ॥
अर्घ्यादिभिरलंकारैर्गन्धपुष्पैस्तथाक्षतैः
धूपैर्दीपैश्र्च नैवेद्यैर्नानाभक्ष्यसमन्वितैः ॥ २७ ॥
रुधिराक्तेन बलिना मांसेन सुरया नृप ।
(बालिमांसादिपूजेयं विप्रवर्ज्या मयेरिता ॥
तेषां किल सुरामांसैर्नोक्ता पूजा नृप क्वचित् ।)
प्रणामाचमनीयेन चन्दनेन सुगन्धिना ॥ २८ ॥
सकर्पूरैश्र्च ताम्बूलैर्भक्तिभावसमन्वितैः ।
वामभागेऽग्रतो देव्याश्छिन्नशीर्षं महासुरम् ॥ २९ ॥
पूजयेन्महिषं येन प्राप्तं सायुज्यमीशया ।
दक्षिणे पुरतः सिंह समग्रं धर्ममीश्र्वरम् ॥ ३० ॥
वाहनं पुजयेद्देव्या धृतं येन चराचरम् ।
कुर्याच्च स्तवनं धीमांस्तस्या एकाग्रमानसः ॥ ३१ ॥
ततः कृताञ्जलिर्भूत्वा स्तुवीत चरितैरिमैः ।
एकेन वा मध्यमेन नैकेनेतरयोरिह ॥ ३२ ॥
चरितार्धं तु न जपेज्जपञ्छिद्रमवाप्नुयात् ।
प्रदक्षिणानमस्कारान् कृत्वा मूर्ध्नि कृताञ्ज्लिः ॥ ३३ ॥
क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतन्द्रितः ।
प्रतिश्लोकं च जुहुयात्पायसं तिलसर्पिषा ॥ ३४ ॥
जुहुयात्स्तोत्रमन्त्रैर्वा चण्डिकायै शुभं हविः ।
भूयो नामपदैर्देवीं पूजय्त्सुसमाहितः ॥ ३५ ॥
प्रयतः प्राञ्जिलिः प्रह्वः प्रणम्यारोप्य चात्मानि ।
सुचिरं भावयेदीशां चण्डिकां तन्मयो भवेत् ॥ ३६ ॥
एवं यः पूजयेद्भक्त्या प्रत्यहं परमेश्र्वरीम् ।
भुक्त्वा भोगान् यथाकामं देवीसायुज्यमाप्नुयात् ॥ ३७ ॥
यो न पूजयते नित्यं चण्डिकां भक्तवत्सलाम् ।
भस्मीकृत्यास पुण्यानि निर्दहेत्परमेश्र्वरीम् ॥ ३८ ॥
तस्मात्पूजय भूपाल सर्वलोकमहेश्र्वरीम् ।
यथाक्तेन विधानेन चण्डिकां सुखमाप्स्यसि ॥ ३९ ॥
 इति वैकृतिकं रहस्यं सम्पूर्णम्

मूर्तिरहस्यम्
 अथ मूर्तिरहस्यम्
 ऋषिरुवाच
ॐ नन्दा भगवती नाम या भविष्यति नन्दजा ।
स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम् ॥ १ ॥
कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा ।
देवी कनकवर्णाभा कनकोत्तमभूषणा ॥ २ ॥
कमलाङ्कुशपाशाब्जैरलंकृत चतुर्भुजा ।
इन्दिरा कमला लक्ष्मीः सा श्री रुक्माम्बुजासना ॥ ३ ॥
या रक्तदन्तिका नाम देवी प्रोक्ता मयानघ ।
तस्याः स्वरुपं वक्ष्यामि श्रृणु सर्वभयापहम् ॥ ४ ॥
रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा ।
रक्तायुधा रक्तनेत्रा रक्त्केशातिभीषणा ॥ ५ ॥
रक्ततीक्ष्णनखा रक्तदशना रक्तदन्तिका ।
पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम् ॥ ६ ॥
वसुधेव विशाला सा सुमेरुयुगलस्तनी ।
दिर्घौ लम्बावतिस्थूलौ तावतीव मनोहरै ॥ ७ ॥
कर्कशावतिकान्तौ तौ सर्वनन्दपयोनिधी ।
भक्तान् सम्पाययेद्देवी सर्वकामधौ स्तनौ ॥ ८ ॥
खड्‌गं पात्रं च मुसलं लाङ्गलं च बिभर्ति सा ।
आख्याता रक्तचामुण्डा देवी योगेश्‍वरीति च ॥ ९ ॥
अनया व्याप्तमखिलं जगत्स्थावरजङ्गमम् ।
इमां यः पूजयेद्भक्त्या स व्याप्नोति चराचरम् ॥ १० ॥
(भुक्त्वा भोगान् यथाकामं देवीसायुज्यमाप्नुयात् ।)
अधीते य इमं नित्यं रक्तदन्त्या वपुःस्तवम् ।
तं सा परिचरेद्देवी पतिं प्रियमिवाड्‍गंना ॥ ११ ॥
शाकम्भरी नीलवर्णा नीलोत्पलविलोचना ।
गम्भीरनाभिस्त्रिवलीविभूषिततनूदरी ॥ १२ ॥
सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी ।
मुष्टिं शिलीमुखापूर्णं कमलं कमलालया ॥ १३ ॥
पुष्पल्लवमूलादिफलाढ्यं शाकसच्चयम् ।
काम्यानन्तरसैर्युक्तं क्षुत्तृण्मृत्युभयापहम् ॥ १४ ॥
कार्मुकं च स्फुरत्कान्ति बिभ्रती परमेश्‍वरी ।
शाकम्भरी शताक्षी सा सैव दुर्गा प्रकीर्तिता ॥ १५ ॥
विशोका दुष्टदमनी शमनी दुरितापदाम् ।
उमा गौरी सती चण्डी कालिका सा च पार्वती ॥ १६ ॥
शाकम्भरीं स्तुवन् ध्यायज्जपन् सम्पूजयन्नमन् ।
अक्षय्यमश्‍नुते शीघ्रमन्नपानामृतं फलम् ॥ १७ ॥
भीमापि नीलवर्णा सा दंष्ट्रादशनभासुरा ।
विशाललोचना नारी वृत्तपीनपयोधरा ॥ १८ ॥
चन्द्रहासं च डमरुं शिरः पात्रं च बिभ्रती ।
एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ॥ १९ ॥
तेजोमण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभृत् ।
चित्रानुलेपना देवी चित्राभरणभूषिता ॥ २० ॥
चित्रभ्रमरपाणिः सा महामारीति गीयते ।
इत्येता मूर्तयो देव्या याः ख्याता वसुधाधिप ॥ २१ ॥
जगन्मातुश्‍चण्डिकायाः कीर्तिताः कामधेनवः ।
इदं रहस्यं परमं न वाच्यं कस्यचित्त्वया ॥ २२ ॥
व्याख्यानं दिव्यमूर्तीनामभीष्टफलदायकम् ।
तस्मात् सर वप्रयत्नेन देवीं जप निरन्तरम् ॥ २३ ॥
सप्तजन्मार्जितैर्घोरैर्ब्रह्महत्यासमैरपि ।
पाठमात्रेण मन्त्राणां मुच्यते सर्वकिल्बिषैः ॥ २४ ॥
देव्या ध्यानं मया ख्यातं गुह्याद् गुह्यतरं महत् ।
तस्मात् सर्वप्रयत्नेन सर्वकामफलप्रदम् ॥ २५ ॥
(एतस्यास्त्वं प्रसादेन सर्वमान्यो भविष्यसि ।
सर्वरुपमयी देवी सर्वं देवीमयं जगत् ।
अतोऽहं विश्र्वरुपां तां नमामि परमेश्र्वरीम् ।
 इति मूर्तिरहस्यं सम्पूर्णम्

क्षमा-प्रार्थना
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्‍वरि ॥ १ ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्‍वरि ॥ २ ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्‍वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥ ३ ॥
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ ४ ॥
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ ५ ॥
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्‍वरि ॥ ६ ॥
कामेश्‍वरि जगन्मातः सच्चिदानन्दविग्रहे ।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्‍वरि ॥ ७ ॥
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्‍वरि ॥ ८ ॥

श्रीभार्गवकवचम्‌
गभीरोमाहात्म्यात्प्रशमशुचिरत्यन्तसुजनः प्रसन्नः पुण्यानां प्रचय इव सर्वस्य सुखदः।
 
प्रभुत्वस्योत्कर्षात्परिणतिविशुद्धेश्च तपसा-मसौ द्दष्टः प्रबलयति पापं च नुदति॥
 
॥ श्रीभार्गवकवचम्‌ ॥
 
॥ श्रीगणेशाय नमः ॥
 
श्रीनारायण उवाच ॥
 
कैलासशिखरे रम्ये शंकरं लोकशंकरम्‌॥ कैवल्यचरणं गौरी पप्रच्छ हितमद्भुतम्‌ ॥१॥
 
पार्वत्युवाच ॥
 
देवदेव महादेव वृषभघ्वज॥ त्वत्तः श्रुतान्यशेषाणि जामदग्न्यस्य साम्प्रतम्‌ ॥२॥
 
श्रीभार्गवकवचम्‌ ॥२॥
 
हरेरंशावतीर्णस्य मन्त्रयन्त्रादिकान्यलम्‌ ॥ न श्रुतं कवचं देव न चोक्तं भवता मम ॥३॥
 
वक्तुमर्हसि देवेश भक्तायै गुह्यमप्युत ॥ इति पृष्टः स गिरिशो मन्त्रयन्त्राङतत्त्ववित्‌ ॥४॥
 
उवाच प्रहसन्देवीं हिताय जगतामिदम्‌ ॥ रहस्यमपि हि ब्रूयुर्लोकैकहितदृष्टयः ॥५॥
 
शिव उवाच॥ श्रृणु प्रिये प्रियमिदं मम गुह्यतरं परम्‌ ॥ घर्मार्थकाममोक्षाणामनायासं सुसिद्भिदम्‌ ॥६॥
 
श्रीभार्गवकवचम्‌ ॥३॥
 
एकमौयिकं मन्ये विष्णुवक्षःस्थलालयाम्‌ ॥ श्रियमाक्रष्टुकामानामिदं कवचमुत्तमम्‌ ॥७॥
 
एकातपत्रसहितां य इच्छेत्सागराम्बराम्‌ ॥ स जामदग्न्यकवचं नित्यमावर्तयेन्नरः ॥८॥
 
उद्दण्डशस्त्रदोर्दण्डप्रचण्डरिपुमण्डलम्‌ ॥ कथं जयेयुर्वीरेन्द्राः कवचानावृताङ्रकाः ? ॥९॥
 
परप्रयुक्तकृत्यादिदोषा भूतादयो॓ऽपि वा ॥ प्रयान्ति भीता रामस्य वर्मणा वीक्ष्य रक्षितम्‌ ॥१०॥
 
श्रीभार्गवकवचम्‌ ॥४॥
 
किमन्यैः कवचैर्देवि किमन्यैर्मनुभिश्च वा ॥ जामदग्न्यः परं यस्य दैवतं भृत्यवत्सलः ॥११॥
 
कवचस्यास्य गिरिजे ऋष्यादिन्यासकल्पनम्‌ ॥ मूलमन्त्रोक्तविधिना कारयेत्साधकोत्तमः ॥१२॥
 
अङ्ररा ऋषिः। बृहती छन्दः। श्रीमाञ्जामदग्न्यो देवता ।
 
उद्दोर्दण्डचलत्कुठारशिखरस्फारस्फुलिङ्राङ्‌कुर-व्रातामोघमहास्त्रनाशितजगद्विद्वेषिवंशाटवीम्‌॥
 
वन्दे भार्ग्वमुग्रकार्मुकघरं प्रसन्नाननं वीरश्रीपरिचुम्ब्यमानमहितस्वब्रह्यतेजोनिधिम्‌ ॥१३॥
 
श्रीभार्गवकवचम्‌ ॥५॥
 
ॐ जामदग्न्यः शिरः पातु पातु मूर्धानमूर्ध्वदृक्‌ ॥ ललाटं ललितः पातु भ्रुवौ भृत्यार्तिनाशनः ॥१४॥
 
श्रवसी सुश्रवा मेऽव्यात्कर्णौ कर्णान्तलोचनः ॥ नेत्रे गोत्रर्तिहा मेऽव्याल्लोचने भवमोचनः ॥१५॥
 
गण्डे मे खण्डपरशुः कपोलौ पातु शीलवानू ॥ नासे सुनासः पायान्मे नासिके दासवत्स्लः ॥१६॥
 
रसनां रसरूपोऽव्याद्रसज्ञां रेणुकासुतः ॥ अधरौ पातु मे नित्यमधरीकृतशात्रवः ॥१७॥
 
श्रीभार्गवकवचम्‌ ॥६॥
 
वक्त्रं चित्रचरित्रोऽव्याद्दन्तान्दन्तीन्द्रविक्रमः ॥ चुबुकं रिपुजित्पातु ग्रीवां श्रीवत्सलाञ्छनः ॥१८॥
 
स्कन्धौ मे स्कन्दविजयी कक्षे मे क्षत्रियान्तकः ॥ भुजौ मे सततं पातु सहस्त्रभुजशासनः ॥१९॥
 
करौ हितकरः पातु पाणी क्षोणीभरापहः ॥ अङ्रलीर्मङ्रलगुणो नखानि मखकृन्मम ॥२०॥
 
श्रीभार्गवकवचम्‌ ॥७॥
 
उदरस्थजगत्पायादुदरं मम सर्वदा ॥ भयापहोऽव्यान्नाभिं मे मध्यं निध्यातविष्टपः ॥२२॥
 
लिङ्रं शंकरशिष्योऽव्यादुपस्थं निस्तुलप्रमः ॥ पाय्वपानं च मे पायात्सायकासनवान्सदा ॥२३॥
 
त्रिःसप्तकृत्वः कुलहा त्रिकं मेऽवतु सर्वदा ॥ परमेष्ठयवतात्पृष्ठं पिठरं दृढविक्रमः ॥२४॥
 
ऊरू मेरुसमः पातु जानू मे जगतां पतिः ॥ जङ्रे संघातहन्ताव्यात्प्रपदे विपदान्तकः ॥२५॥
 
श्रीभार्गवकवचम्‌ ॥८॥
 
पादौ मे पादचार्यव्याच्चरणौ करुणानिधिः ॥ पादाङ्रलीः पापहा मे पायात्पादतले परः ॥२६॥
 
परश्चधधरः पायाद्रासः पादनखानि मे ॥ पूर्वाभिभाषी मां पायात्पूर्वस्यां दिशि संततम्‌ ॥२७॥
 
दक्षिणस्यामपि दिशि दक्षजज्ञान्तकप्रियः ॥ पश्चिमस्यां सदा पायात्पाश्चात्याम्बुधिमर्दनः ॥२८॥
 
वित्तेशरक्षिताशायां पायान्मां सत्तमार्मितः ॥ सर्वतः सर्वजित्पायान्ममाङ्रानि भयात्प्रभुः ॥२९॥
 
श्रीभार्गवकवचम्‌ ॥९॥
 
मनो महेन्द्रनिलयश्चित्तं मे दृप्तनाशनः ॥ बुद्भिं सिद्भार्चितः पायादहंतामनहंकृतिः ॥३०॥
 
कर्माणि कार्तवीर्यारिर्हेलां हैहयवंशहा ॥ हरत्वमोघदृङनोहं क्रोधं च क्रोधदर्पहा ॥३१॥
 
श्रियं करोतु मे श्रीशः पुष्टिं मे पुष्टिवर्धनः ॥ संतानं सततं दद्याद्भगुसंतानभूरुहः ॥३२॥
 
आयूंषि मे वितनुतादार्यः परमपूरुषः ॥ आशां मे पूरयत्वाशु कश्यपार्पितविष्टपः॥
 
श्रीमान्परशुरामो मां पातु सर्वात्मना सदा ॥३३॥
 
श्रीभार्गवकवचम्‌ ॥१०॥
 
ॐ इत्येतत्कवचं दिव्यमभेद्यं मन्त्रयन्त्रिभिः ॥ कथितं देवि ते गुह्यं प्रियेति परमाद्बुतम्‌ ॥३४॥
 
न नास्तिकाय नादात्रे न चाश्रद्भालवे प्रिये ॥ देयान्नाविनीतायैतन्नाभक्ताय कदाचन ॥३५॥
 
नाजापकाय नाज्ञात्रे नासत्यवचसे क्कचित्‌ ॥ नामालामन्त्रिणे देवि प्रदेयं नाप्यमन्त्रिणे ॥३६॥
 
देयं श्रद्भालवे भक्त्या प्रणताय नतात्मने ॥ गुणान्विताय शुद्भाय मन्त्रगोप्ते‌ च मन्त्रिणे ॥३७॥
 
श्रीभार्गवकवचम्‌ ॥११॥
 
अवश्यमेतज्जप्तव्यं त्रिसन्ध्यं नियमान्वितैः ॥ मन्त्रावसाने मन्त्रज्ञै रचितं मन्त्रसिद्भये ॥३८॥
 
वर्मैतच्च जपेन्मन्त्री जपेद्वा सततं मनुः ॥ आसोचितादिव तरोर्फलं नाप्रोति सद्रसम्‌ ? ॥३९॥
 
जयकामो भूर्जपत्रे रक्तबिन्दुभिरूज्ज्वलैः ॥ लिखित्वावर्तयेद्रात्रौ कवचं शतसंख्यया ॥४०॥
 
संपूज्य धूपदीपाद्यैर्ध्यात्वा च ह्रदि भार्गवम्‌ ॥ हस्ते बघ्वा रणं गत्वा विजयाश्रियमाप्रुयात्‌ ॥४१॥
 
श्रीभार्गवकवचम्‌ ॥१२॥
 
एवं संप्रस्थितस्यास्य विद्यावादे रणेऽपि वा ॥ वाचस्पतिर्वा शक्रो वा वश्यः स्यात्किमुतापरे ॥४२॥
 
अथवा तिलकं कृत्वा रक्तक्षोदेन भामिनि ॥ कवचेनाभिजप्तेन गच्छञ्जयमवाप्रुयात्‌ ॥४३॥
 
श्रीकामस्तु महेन्द्राद्रेर्द्रणिं गत्वा मनोहराम्‌ ॥ तत्र मण्डलमास्थाय चण्डभानुं विलोकयन्‌ ॥४४॥
 
जपेदिदं महद्वर्म प्रत्यहं शतसंख्यया ॥ मण्डलान्ते श्रियं श्रेष्ठां लभते भार्गवाज्ञया ॥४५॥
 
श्रीभार्गवकवचम्‌ ॥१३॥
 
सिद्भयो विविधास्तस्य दिव्यजोतिर्लतालयः ॥ सिध्यन्ति सिद्भवन्द्यस्प कृपया विस्मयावहाः ॥४६॥
 
भूतप्रेतपिशाचाश्च रोगाश्च विविधाशुभाः ॥ दुष्टा नृपास्तस्कराश्च व्याघ्रसिंहगजादयः ॥४७॥
 
श्रीमद्भृगुकुलोत्तंसदंशदंशितमद्रिजे ॥ दृष्ट्‌वैव हि पलायन्ते मृत्युं दृष्ट्‌वैव हि प्रजाः ॥४८॥
 
जामदग्न्यस्य यो वाञ्छेत्सान्निध्यं योगिदुर्लभम्‌ ॥ दारिद्यदुःखशमनं संसारभयनाशनम्‌ ॥४९॥
 
श्रीभार्गवकवचम्‌ ॥१४॥
 
स महेन्द्रस्य शिखरे स्नात्वोपस्थाय भास्करम्‌ ॥ तन्मध्यवर्तिनं शान्तं जटामण्डलमण्डितम्‌ ॥५०॥
 
परश्चधनुर्दण्डराजितांसद्वयान्वितम्‌ ॥ अक्षसूत्रं सुबिभ्राणं दक्षिणेऽङ्रलिपल्लवे ॥५१॥
 
वामजानुतलन्यस्तवामपाणिकुशेशयम्‌ ॥ उन्मज्जज्जलजग्रीवमामीलितविलोचनम्‌ ॥५२॥
 
सुप्रसन्नमुखाम्भोजं सुस्मितं पल्लवाधरम्‌ ॥ सुन्दरं सुन्दरापाङ्रं भोगिभोगभुजद्वयम्‌ ॥५३॥
 
श्रीभार्गवकवचम्‌ ॥१५॥
 
भक्तानुग्राहकं देवं जामदग्न्यं जगत्पतिम्‌ ॥ ध्यायन्तमात्मनात्मानं ध्यायेत्प्रण्तवत्सलम्‌ ॥५४॥
 
अथ द्वादशभिः पुण्यैर्नामभिः पापहारिमिः ॥ जपतामिष्टदैर्भृत्यपारिजातं समर्चयेत्‌ ॥५५॥
 
जामदग्न्यो जगन्नेता ब्रह्यण्यो ब्रह्यण्यो ब्रह्यवत्सलः ॥ कार्तवीर्यकुलोच्छेत्ता क्षत्रवंशप्रतापनः ॥५६॥
 
विश्र्वजिद्दीक्षितो रामः कश्यपाशासुरदुमः ॥ परश्वधधरः शान्तो महेन्द्रकृतकेतनः ॥५७॥
 
श्रीभार्गवकवचम्‌ ॥१६॥
 
एतैर्द्वादशभिर्दिव्यैर्गोप्यैरम्यर्च्य नामभिः ॥ उपतिष्ठेत्पुनर्गुह्यैर्मुख्यैर्नामभिरीश्वरम्‌ ॥५८॥
 
क्षिप्रप्रसादजननैश्चतुर्वर्गफलोदयैः ॥ हन्त ते संप्रवक्ष्यामि तान्यपि प्रणतासि यत्‌ ॥५९॥
 
इमानि गौरि नामानि सुगोप्यानि सतामपि ॥ ॐ हंसस्त्रयीमयो धाता योगीन्द्रह्लदयालयः ॥६०॥
 
त्रिधामा त्रिगुणातीतास्त्रैमूर्तिस्त्रिजगन्मयः ॥ नारायणः परं ब्रह्य परं तत्त्वं परात्परः॥६१॥
 
श्रीभार्गवकवचम्‌ ॥१७॥
 
भार्गवो धर्मचरणो भर्गरूपः सतां गतिः ॥ इति षोडशमिः स्तुत्वा नामभिऋषिपुंगवम्‌ ॥६२॥
 
सर्वाशिषां पतिं देवं सकलाभीष्टदायकैः ॥आत्मानं विन्यसेदङ्रेष्वनेन कवचेन सः ॥६३॥
 
मृगीमुद्रिकया धीमान्वज्रसारेण सारवित्‌ ॥ दशवारं प्रतिदिनं मासमेकं समाचरेत्‌ ॥६४॥
 
स्वप्रे पश्यति देवेशं भार्गवं भृगुनन्दनम्‌ ॥ चिन्तितार्थप्रदं सौभ्यं चिन्तामणिमिवापरम्‌ ॥६५॥
 
श्रीभार्गवकवचम्‌ ॥१८॥
 
मासत्रय़ं तु विन्यस्ते साक्षात्पश्यति जापकः ॥मनसः संप्रसादेन लब्ध्वा वरमनुत्तमम्‌ ॥६६॥
 
अणिमादिगुणैर्युक्तो ब्रह्यलोकमवाप्रुयात्‌ ॥ अथवा योगसिद्भिं यो धातुसिद्भिं च वाञ्छति ॥६७॥
 
कुरुक्षेत्रे महेन्द्रे वा जपेदयुतमात्मवान्‌ ॥ सर्वाश्चौषधयस्तस्य खेचरत्वादिसिद्भिदाः ॥६८॥
 
रससिद्भिप्रदाश्चापि सिध्यन्त्यस्य न संशयः ॥ महेन्द्राद्रिरिव क्षेत्रं सिद्भिदं नास्ति भूतले ॥६९॥
 
श्रीभार्गवकवचम्‌ ॥१९॥
 
जामदग्न्य इवान्योऽस्ति न देवो भृत्यवत्स्लः ॥ प्रस्फुरदुणसौवर्णराशीनां जन्मभूः परः ॥७०॥
 
तथेदमिव वर्मान्यद्भर्मादिफलदं न हि ॥ कवचेऽस्मिन्सकृज्जप्ते नन्त्रावृत्तिसहस्त्रजम्‌ ॥७१॥
 
फलमाप्रोत्यविकलं तस्मान्नित्यं जपेन्नरः ॥ अमन्त्री वापि मन्त्री वा भार्गवे भक्तिमान्नरः ॥७२॥
 
जपेन्नित्यमिदं वर्म मन्त्रसिद्भिमवाप्रुयात्‌ ॥ सारस्वतमिदं देवि कवचं वाक्प्रदं नृणाम्‌ ॥७३॥
 
श्रीभार्गवकवचम्‌ ॥२०॥
 
मूकोऽपि वाग्मी भवति जपन्नेतद्भरुर्यथा ॥ नित्यं परश्चधभृतः कवचस्यास्य धारणात्‌ ॥७४॥
 
सभासु वद्तां श्रेष्ठो राज्ञां भवति च प्रियः ॥ वैदिकं तान्त्रिकं चैव मान्त्रिकं ज्ञानमुत्तमम्‌ ॥७५॥
 
कवचस्यास्य जापी तु ब्रह्यज्ञानं च विन्दति ॥ इत्येतदुक्तं कवचं मया हैहयविद्विषः ॥७६॥
 
गोपनीयमिदं देवि ममात्मासि मणिर्यथा ॥ धन्यं यशस्यमायुष्यं श्रीकरं पुष्टिवर्धनम्‌॥
 
जपतां कवचं नित्यं सर्वसौभाग्यपूरितम्‌ ॥७७॥
 
श्रीभार्गवकवचम्‌ ॥२१॥
 
इति श्रीविष्णुयामले उपरिभागे जामदग्न्यदिव्याञ्जनसिद्धिकल्पे त्रयस्त्रिंत्पटलः ॥ श्रीभार्गवार्पणमस्तु ॥
 
॥ श्रीभार्गवकवचं संपूर्णम्‌ ॥

वेबदुनिया वर वाचा

संबंधित माहिती