श्री विष्णुसहस्त्रनाम स्तोत्र
 
	
		
			 
										    		बुधवार,  29 ऑक्टोबर 2025 (14:57 IST)
	    		     
	 
 
				
											ॐ श्री परमात्मने नमः ।
	ॐ नमो भगवते वासुदेवाय ।
	 
	यस्य स्मरणमात्रेन जन्मसंसारबन्धनात् ।
	विमुच्यते नमस्तमै विष्णवे प्रभविष्णवे ॥
	 
	नमः समस्तभूतानां आदिभूताय भूभृते ।
	अनेकरुपरुपाय विष्णवे प्रभविष्णवे ॥
	 
	वैशम्पायन उवाच
	श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
	युधिष्टिरः शान्तनवं पुनरेवाभ्यभाषत ।१।
	 
	युधिष्टिर उवाच
	किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
	स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ।२।
	 
	को धर्मः सर्वधर्माणां भवतः परमो मतः ।
	किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ।३।
	 
	भीष्म उवाच
	जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
	स्तुवन्नामसहस्त्रेण पुरुषः सततोत्थितः ।४।
	 
	तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
	ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ।५।
	 
	अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
	लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ।६।
	 
	ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
	लोकनाथं महद्भूतं सर्वभूतभवोद्भभवम् ।७।
	 
	एष मे सर्वधर्माणां धर्माऽधिकतमो मतः ।
	यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ।८।
	 
	परमं यो महत्तेजः परमं यो महत्तपः ।
	परमं यो महद्ब्रह्म परमं यः परायण्म् ।९।
	 
	पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
	दैवतं देवतानां च भूतानां योऽव्ययः पिता ।१०।
	 
	यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
	यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ।११।
	 
	तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
	विष्णोर्नामसहस्त्रं मे श्रॄणु पापभयापहम् ।१२।
	 
	यानि नामानि गौणानि विख्यातानि महात्मनः ।
	ॠषिभिः परिगीतानि तानि वक्ष्यामि भूतये ।१३।
	 
	ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
	भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ।१४।
	 
	पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
	अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ।१५।
	 
	योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
	नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ।१६।
	 
	सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
	सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ।१७।
	 
	स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
	अनादिनिधनो धाता विधाता धातुरुत्तमः ।१८।
	 
	अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
	विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ।१९।
	 
	अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
	प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ।२०।
	 
	ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
	हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ।२१।
	 
	ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
	अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ।२२।
	 
	सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
	अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ।२३।
	 
	अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युत ।
	वृषाकपरिमेयत्मा सर्वयोगविनिःसृतः ।२४।
	 
	वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः ।
	अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।२५।
	 
	रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
	अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः ।२६।
	 
	सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
	वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ।२७।
	 
	लोकाध्यक्षः सुराध्यक्षो धर्माधक्षः कृताकृतः ।
	चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ।२८।
	 
	भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
	अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ।२९।
	 
	उपेन्द्रो वामनः प्रांशुरमोघः शुचिरुर्जितः ।
	अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ।३०।
	 
	वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
	अतीन्द्रियो महामायो महोत्साहो महाबलः ।३१।
	 
	महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
	अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक ।३२।
	 
	महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
	अनिरुध्दः सुरानन्दो गोविन्दो गोविदां पतिः ।३३।
	 
	मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
	हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ।३४।
	 
	अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान्स्थिरः ।
	अजो दुर्मर्षणः शास्ता विश्रृतात्मा सुरारिहा ।३५।
	 
	गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
	निमिषोऽनिमिषः स्त्रग्वी वाचस्पतिरुदारधीः ।३६।
	 
	अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः ।
	सहस्त्रमूर्धा विश्वात्मा सहस्त्राक्षः सहस्त्रपात् ।३७।
	 
	आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।
	अहः संवर्तको वह्निरनिलो धरणीधरः ।३८।
	 
	सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।
	सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ।३९।
	 
	असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
	सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ।४०।
	 
	वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
	वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ।४१।
	 
	सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
	नैकरुपो बृहद्रूपः शिपिविष्टः प्रकाशनः ।४२।
	 
	ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
	ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ।४३।
	 
	अमृतांशूद्भवो भानुः शशविन्दुः सुरेश्वरः ।
	औषधं जगतः सेतुः सत्यधर्मपराक्रमः ।४४।
	 
	भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
	कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ।४५।
	 
	युगादिकृद्युगावर्तो नैकमायो महाशनः ।
	अदृश्योऽव्यक्तरुपश्च सहस्त्रजिदनन्तजित् ।४६।
	 
	इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
	क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ।४७।
	 
	अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
	अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ।४८।
	 
	स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
	वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ।४९।
	 
	अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
	अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ।५०।
	 
	पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
	महर्ध्दिर्ऋध्दो वृध्दात्मा महाक्षो गरुडध्वजः ।५१।
	 
	अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
	सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जयः ।५२।
	 
	विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
	महीधरो महाभागो वेगवानमिताशनः ।५३।
	 
	उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
	करणं कारणं कर्ता विकर्ता गहनोगुहः ।५४।
	 
	व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
	परर्ध्दिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ।५५।
	 
	रामो विरामो विरजो मार्गो नेयोऽनयः ।
	वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ।५६।
	 
	वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
	हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।५७।
	 
	ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
	उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ।५८।
	 
	विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।
	अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ।५९।
	 
	अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयुपो महामखः ।
	नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ।६०।
	 
	यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
	सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ।६१।
	 
	सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
	मनोहरो जितक्रोधो वीरबाहुर्विदारणः ।६२।
	 
	स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
	वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।६३।
	 
	धर्मगुब्धर्मकृध्दर्मी सदसत्क्षरमक्षरम् ।
	अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः ।६४।
	 
	गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
	आदिदेवो महादेवो देवेशो देवभृद्गुरुः ।६५।
	 
	उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
	शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ।६६।
	 
	सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।
	विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ।६७।
	 
	जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
	अम्भोनिधिरनन्तामा महोदधिशयोऽन्तकः ।६८।
	 
	अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
	आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ।६९।
	 
	महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
	त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ।७०।
	 
	महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
	गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ।७१।
	 
	वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः ।
	वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ।७२।
	 
	भगवान् भगहानन्दी वनमाली हलायुधः ।
	आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ।७३।
	 
	सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
	दिविस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ।७४।
	 
	त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
	संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ।७५।
	 
	शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
	गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ।७६।
	 
	अनिवर्ती निवृत्तामा संक्षेप्ता क्षेमकृच्छिवः ।
	श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ।७७।
	 
	श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
	श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ।७८।
	 
	स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
	विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ।७९।
	 
	उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
	भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ।८०।
	 
	अर्चिष्मानर्चितः कुम्भो विशुध्दात्मा विशोधनः ।
	अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ।८१।
	 
	कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
	त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ।८२।
	 
	कामदेवः कामपालः कामी कान्तः कृतागमः ।
	अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः ।८३।
	 
	ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
	ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ।८४।
	 
	महाक्रमो महाकर्मा महातेजा महोरगः ।
	महाक्रतुर्महायज्वा महायज्ञो महाहविः ।८५।
	 
	स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
	पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ।८६।
	 
	मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
	वसुप्रदो वासुदेवो वसुर्वसुमना हविः ।८७।
	 
	सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
	शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ।८८।
	 
	भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
	दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ।८९।
	 
	विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
	अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ।९०।
	 
	एको नैकः सवः कः किं यत्पदमनुत्तमम् ।
	लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ।९१।
	 
	सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
	वीरहा विषमः शून्यो घृताशीरचलश्चलः ।९२।
	 
	अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
	सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ।९३।
	 
	तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
	प्रग्रहो निग्रहो व्यग्रो नैकश्रृङ्गो गदाग्रजः ।९४।
	 
	चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।
	चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ।९५।
	 
	समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
	दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ।९६।
	 
	शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
	इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ।९७।
	 
	उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
	अर्को वाजसनः श्रृङ्गी जयन्तः सर्वविज्जयी ।९८।
	 
	सुवर्णविन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
	महाह्र्दो महागर्तो महाभूतो महानिधिः ।९९।
	 
	कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
	अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ।१००।
	 
	सुलभः सुव्रतः सिध्दः शत्रुजिच्छ्त्रुतापनः ।
	न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ।१०१।
	 
	सहस्त्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
	अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ।१०२।
	 
	अणुर्बृहत्कृशः स्थूलोगुणभृन्निर्गुणो महान् ।
	अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्द्धनः ।१०३।
	 
	भारभृत्कथितो योगी योगीशः सर्वकामदः ।
	आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ।१०४।
	 
	धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
	अपराजितः सर्वसहो नियन्तानियमोऽयमः ।१०५।
	 
	सत्ववान्सात्विकः सत्यः सत्यधर्मपरायणः ।
	अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः ।१०६।
	 
	विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
	रविर्विरोचनः सूर्यः सविता रविलोचनः ।१०७।
	 
	अनन्तो हुतभुग्भोक्ता सुखदो नैकदोऽग्रजः ।
	अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ।१०८।
	 
	सनात्सनातनतमः कपिलः कपिरप्ययः ।
	स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ।१०९।
	 
	अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
	शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ।११०।
	 
	अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।
	विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ।१११।
	 
	उत्तारणो दुष्कृतिहा पुण्यो दु:स्वप्ननाशनः ।
	वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ।११२।
	 
	अनन्तरुपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
	चतुरस्त्रो गभीरात्मा विदिशो व्यादिशो दिशः ।११३।
	 
	अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
	जननो जनजन्मादिर्भीमो भीमपराक्रमः ।११४।
	 
	आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
	ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ।११५।
	 
	प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।
	तत्वं तत्वविदेकात्मा जन्ममृत्युजरातिगः ।११६।
	 
	भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।
	यज्ञॊ यज्ञोपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ।११७।
	 
	यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः ।
	यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ।११८।
	 
	आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
	देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ।११९।
	 
	शङ्खभृन्नदकी चक्री शार्ङ्ग्धन्वा गदाधरः ।
	रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ।१२०।
	 
	॥ सर्वप्रहरणायुध ॐ नम इति ॥
	 
