Pashupati Ashtakam पशुपति अष्टकम्

सोमवार, 27 ऑक्टोबर 2025 (07:47 IST)
पशुपति अष्टकम् ।पशुपतीन्दुपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् ।
प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥१॥
 
न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् ।
अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥२॥
 
मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम् ।
प्रमथभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम्  ॥३॥
 
शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम् ।
अभयदं करुणावरुणालयं भजत रे मनुजा गिरिजापतिम्  ॥४॥
 
नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम् ।
चितिरजोधवलीकृतविग्रहं भजत रे  मनुजा गिरिजापतिम्  ॥५॥
 
मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम् ।
प्रळयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम्  ॥६॥
 
मदमपास्य चिरं हृदि संस्थितं मरणजन्मजरामयपीडितम् ।
जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम्  ॥७॥
 
हरिविरञ्चिसुराधिपपूजितं यमजनेशधनेशनमस्कॄतम् ।
त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम्  ॥८॥
 
पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा ।
पठति संश‍ृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम् ॥९॥
 
इति श्रीपशुपत्यष्टकम् संपूर्णम् ॥

वेबदुनिया वर वाचा

संबंधित माहिती