नमश्शब्दमात्रे सदातुष्टदेवं
नतानामुनीनां हृदिस्थंगिरीशम् ।
नरेन्द्राधिपत्यं ददन्तंवहन्तं
महारुद्रयज्ञैः सदास्तूयमानं
नमश्शिवायेति पदाभिधंहुवे ॥ २ ॥
शिवंशान्तमूर्ति शिष्टैकपूजितं
श्रितांघ्रिस्वभक्तान् सदैवाभिरक्षम्
श्रियंसंदधानं शिलारूपमाद्यं
नमश्शिवायेति पदाभिधंनमे ॥ ३ ॥